SARASVAT-NIKETANAM--श्रुत्युपनिषदां विमल-विचारसारेण अशेषभुवस्तले मुक्तिपथं प्रकाशयन्ती साक्षात्कृतधर्मणां सिद्धवाचां महर्षीणां चिन्तन-मननं निदधती मानवीयजीवनमूल्यानि समुदारचेतसा सर्वेभ्यः सस्नेहं प्रयच्छन्ती अनवद्याभिर्विविधकलाभिः समेषां मनोविनोदयन्तीधियञ्च पुष्णन्ती देवी वागीयं देशविदेशे च प्रीतिसम्मानभाजनं विद्यतेतरामिति नाविदितं विदुषाम्। इयमस्ति भारतीयसंस्कृतिसभ्यतयोरुत्सः, सदाचारविचाराणां शेवधिः विविधशास्त्राणां रत्नाकरः इति न प्रयत्नप्रतिपादनीयम्। प्रागैतिहासकालादारभ्य अधुनावधि विश्वविपश्चितां मानसकमलमध्यास्य वीणां निनादयन्ती ज्ञानालोकं प्रसारयन्ती प्रतिकूलवाताहतापि सुरगवीयं दिव्यज्ञानामृतं प्रदाय हर्षवर्षं निरन्तरं कुरुतेतराम्। “संस्कृतेश्चत्वारोऽधयाया” इति राष्ट्रभाषानिबद्धे बैदुष्यपूर्णे ग्रन्थे राष्ट्रकविर्दिनकरः भाषामेतामादाय स्वविचारं प्रकाशयन् आह- भारतस्य यत् किमपि मौलिकं चिन्तनं सत्यं शिवं सुन्दरं च तत्त्वमस्ति तत् सर्वं प्राक् संस्कृतभाषायामेवाभिव्यक्तिमगात्। तदनूदितमेव सर्वं तदितरभारतीयभाषासु दृष्टिपथमायाति। वस्तुतोऽत्रैव भारतीयतायाः परिचयः अन्वेष्टुं शक्यते। साम्प्रतं विज्ञानप्रभावात् समस्ते जगति कुटुम्बायमाने संवृत्ते अस्या महीयस्या गिरः प्रचारः प्रसारश्च सुकरो विद्यते। समस्तं जगदधुना अशान्तमिव क्षुब्धमिव हिंसाद्वेषदग्धमिव दृश्यते। विषमसमयेऽस्मिन् देवगिरोऽस्याः प्रीति-मैत्री-रस-प्रसादः समेषामपेक्षितो वर्तते। कदाचिदस्याः सुधामयोपदेशेन विश्वजनमानसं शान्तिमानन्दं च लभतामित्युद्दिश्य आन्तर्जालमाध्यमेन सर्वत्रास्याः प्रचाराय प्रसाराय च संस्कृतवाङ्मयसारगर्भा जाह्नवीव जनमानस्तापहारिणी जाह्नवी नाम मासिकी पत्रिका प्रकाश्यमाना अस्ति। तत्र प्रकाशनाय संस्कृते राष्ट्रभाषायाम् आंग्लभाषायां वा आलेखान् प्रेषयितुं श्रीमन्तो विद्वांसः सादरमामन्त्रिता भवन्ति। सारस्वतेऽस्मिन् यज्ञे संस्कृतानुरागिणः संस्कृतमर्मविदश्च विद्वांसः सहर्षं सहयोगं प्रदाय पुण्यभाजो यशोभाजश्च भविष्यन्ति इत्येवमाशास्ते। वसन्ताङकात् प्रकाश्यमानीतेयं जाह्नवी सुचिरं सर्वत्र प्रवहन्ती सहृदयजनमानसे शान्तिं सुखं सन्तोषञ्च प्रयच्छतात्। 

॥सारस्वत-निकेतनम्॥

 नीलानिलयः। 
LAST UPDATE- 06/11/2017 09:41 AM  
HOME || NETWORK CREATOR|| SANSKRIT JUNCTIONL|| SANSKRIT E-JOURNAL|| CONTACT
अत्र---1. संस्कृतस्य निखिलज्ञानराशिम् एकत्रान्तर्जाले सुव्यवस्थाप्य सर्वेभ्यो जनेभ्यः सौकर्येण सुलभः स्यादिति प्रयासः। 2. संस्कृतक्षेत्रे जायमानानामभिनवानां शोधानाम्, अभिनवानां प्रकल्पानां, नूतनानां चिन्तनानाञ्च तकनीकीकरणम्। 3. संस्कृतस्य वैज्ञानिकवैभवम् अन्तर्जालपुटमाध्यमेन विश्वमानसपटले आनेतुम् उद्यमः। 4. संस्कृतशास्त्रनिधिम् अक्षुण्णं यथा स्यात् तथा व्यवस्थापनम्।

रक्षा यथा स्याद् वरसंस्कृतेर्नः, यथा सुरक्षाऽस्तु च देववाण्याः।
शास्त्रस्य रक्षामपि संविधातुं, प्रवर्त्ततां संस्कृतजाह्नवीयम्॥


इयं संस्कृतगङ्गा पुरा कदाचित् इह भारते अजस्रं प्रवहन्ती पुनरपि लोकहिताय देवलोकात् अवतारणीया इति धिया एव अयं प्रयासः। इदं (सारस्वत-निकेतनम् इत्याख्यम् जालपुटं संस्कृत-प्रेमिभि: संस्कृत-प्रेम्णा संस्कृत-प्रेमिणां कृते निर्मितम्। अत: यदि भवति संस्कृत-प्रेम अस्ति तर्हि इदं भवत: कृते एव। संस्कृत-प्रेम-मात्रम् अपेक्षते न तु पाण्डित्यं । आयान्तु, वत्सा: इव संस्कृतकपिलां प्रति पुनरपि उन्मुखा: भवाम। तदैव वयं भारतीया: संस्कृत-मातु: दिव्येन पयसा पुन: पुष्टा: भारतं परम-वैभवं प्रापयन्त: विश्व-कल्याणं साधयिष्याम:। जालपुटेऽस्मिन् सर्वे संस्कृत-प्रेमिण: एकत्रीभविष्यन्ति। संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। सर्वेऽपि अस्य जालपुटस्य माध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरता: भविष्यन्ति इति विश्वासेन इदम् आह्नवानम्। सारस्वत-निकेतनम् इत्यस्यान्तर्गतविविधजालपुटानाम् अन्वितिः अस्ति। प्रकारान्तरेण इदं सारस्वत-निकेतनम् इत्याख्यं जालपुटं केन्द्रीयजालपुटरूपे विद्यते।
Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural Natural

Natural
प्राक्तनशोधार्थी- भारतीय प्रौद्योगिकी संस्थान(IIT Bombay), मुम्बई एवं जवाहरलाल नेहरू विश्वविद्यालय(JNU), नई दिल्ली
साहित्यविभागीयाध्यापक- राष्ट्रियसंस्कृतसंस्थान, (वेदव्यासपरिसर, हि.प्र.) मानितविश्वविद्यालय, नई दिल्ली
Department of Sahitya, Vedavyas Campus, Rashtriya Sanskrit Sansthan (Deemed University)
Balahar, Via- Garli, Dehara, Kangra, Himachal Pradesh-177108
सम्पर्क करें >>>>>>>>> BIPIN JHA BIPIN JHA BIPIN JHA BIPIN JHA BIPIN JHA

[This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha. All right reserved- Bipin Kumar Jha & Varsha Jha.]
TOP<<<<<<<<<<<<<<<<<<<<<< >>>>>>>>>>>>>>सम्पर्क करें


The Web The Web Page of Dr. Bipin Jha