[COLLECTED WITH THANKS....]
SANSKRIT SONGS

सरससुबोधा विश्वमनोज्ञा

सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया।
अमृतवाणी संस्कृतभाषा

नैव क्लिष्टा न च कठिना॥ ॥नैव क्लिष्टा॥


कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीय कथा।

अतीव-सरला मधुरमंजुला
नैव क्लिष्टा न च कठिना॥ ॥सरस.....॥

व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा।
कौरव - पाण्डव -संगरमथिता
नैव क्लिष्टा न च कठिना॥ ॥ सरस.....॥

कुरूक्षेत्र-समरांगण - गीता
विश्ववन्दिता भगवद्‌गीता
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना॥ ॥ सरस.....॥

कविकुलगुरू - नव - रसोन्मेषजा
ऋतु - रघु - कुमार - कविता।
विक्रम - शाकुन्तल - मालविका
नैव क्लिष्टा न च कठिना॥ ॥ सरस.....॥

नैव क्लिष्टा न च कठिना॥

गीतम्‌ - 2

मृदपि च चन्दनमस्मिन्‌ देशे, ग्रामो ग्रामः सिद्धवनम्‌।

यत्र च बाला देवीस्वरूपा, बालाः सर्वे श्रीरामाः॥
हरिमन्दिरमिदमखिलशरीरं, धनशक्ती-जनसेवायै
यत्र च क्रीडायै वनराजः, धेनुर्माता परमशिवा
नित्यं प्रातः शिवगुणगानं, दीपनुतिः खलु शत्रुपरा। यत्र......
भाग्यविधायि निजार्जितकर्म, यत्र श्रमः श्रियमर्जयति
त्यागधनानां तपोनिधीनां, गाथां गायति कविवाणी
नित्यं प्रातः शिवगुणगानं, दीपनुतिः खलु शत्रुपरा। यत्र.......
यत्र हि नैव स्वदेहविमोहः, युद्धरतानां वीराणां
यत्र च कृषकः कार्यरतः सन्‌, पश्यति जीवनसाफल्यम्‌
जीवनलक्ष्यं न हि धनपदवी, यत्र च परशिवपदसेवा। यत्र.......
गीतम्‌ - 3

रचयेम संस्कृतभवनम्‌

रचयेम संस्कृतभवनम्‌
ग्रामे नगरे समस्तराष्ट्रे


रचयेम संस्कृत भवनम्‌
इष्टिकां विना मृत्तिकां विना
केवलसम्भाषणविधया
संस्कृतसम्भाषणकलया॥

शिशुबालानां स्मितमृदुवचने
युवयुवतीनां मञ्जुभाषेण
वृद्धगुरूणां वत्सलहृदये
रचयेम संस्कृतभवनम्‌ ॥1॥

अरूणोदयतः सुप्रभातम्‌
शुभरात्रिं निशि संवदेम
दिवानिशं संस्कृतवचनेन
रचयेम संस्कृतभवनम्‌ ॥2॥

सोदर - सोदरी - भाव - बन्धुरं
मातृप्रेमतो बहुजनरूचिरं
वचनललितं श्रवणमधुरं
रचयेम संस्कृतभवनम्‌ ॥3॥

मूलशिला सम्भाषणमस्य
हिन्दुजनैक्यं शिखरमुन्नतम्‌
सोपानं श्रवणादिविधानम्‌
रचयेम संस्कृतभवनम्‌ ॥4॥
गीतम्‌ - 4

अवनितलं पुनरवतीर्णा स्यात्‌

अवनितलं पुनरवतीर्णा स्यात्‌
संस्कृत-गङ्‌गा-धारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धाराः ॥
निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहतात्‌ जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्‌
यान्तु च जन्मविकाराः ॥धीरभगीरथ...।

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचाराः
॥धीरभगीरथ....॥

या माता संस्कृतिमूला
यस्याः व्याप्तिः सुविशाला
वाङ्‌मयरूपा सा भवतु
लसतु चिरं सा वाङ्‌माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूराः
॥धीरभगीरथ....॥
गीतम्‌ - 5

चिरनवीना संस्कृता एषा
चिरनवीना संस्कृता एषा, गीर्वाणभाषा
चिरनवीना संस्कृता एषा॥
महतो भूतस्य निःसितम्‌
अस्ति यस्याम्‌ अतिपुरातन - वेदसाहित्यम्‌
शास्त्रपूरैः स्मृतिविचारैः
वरकवीनां काव्यसारैः
चित्रिता मंजुला मंजूषा, मंजुला भाषा। चिरनवीना॥
वाल्मीकि - व्यास - मुनिरचितं
रामायणं महाकाव्यं महाभारतं
क्लैब्यकिल्बिष - कलित - पार्थं
कार्यविषये योजयन्ती
अस्ति यस्यां भगवती गीता, भगवता कथिता ॥चिरनवीना॥
मातृभाषा मातृभाषाणाम्‌, भवितुमर्हा
राष्ट्रभाषा भारतीयानाम्‌,
भवतु भाषाद्वेषनाशः
सर्वथा उद्धोषयामः
भारतीया भारती एषा, अनुपमा सरसा ॥चिरनवीना॥

गीतम्‌ - 6

संस्कृतस्य सेवनं, संस्कृताय जीवनम् ‌

संस्कृतस्य सेवनं, संस्कृताय जीवनम्‌ ।
लोकहितसमृद्धये भवतु तनुसमर्पणम्‌ ॥
कार्य - गौरवं स्मरन्‌,विध्नवारिधिं तरन्‌,
लक्ष्यसिद्धिमक्षिसात्‌ करोमि सोद्यमः स्वयम्‌ ।
यावदेति संस्कृतं, प्रतिजनं गृहं गृहम्‌ ॥
तावदविरता गतिस्तावदनुपदं पदम्‌ ॥1॥ लोक0.........
कामये न सम्पदं,भोगसाधनं सुखम्‌,
किदन्यदाद्रिये विना न संस्कृतोन्नतिम्‌ ।
गौरवास्पदं पदं, नेतुमद्य संस्कृतम्‌ ॥
बद्धकटिरयं जनो निधाय जीवनं पणम्‌ ॥2॥ लोक0.........
भाषिता च वागियं भाषिता भवेद्‌ ध्रुवम्‌,
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्‌ ।
भरतभूमिभूषणं सर्ववाग्विभूषणम्‌ ॥
संस्कृतिप्रवाहकं संस्कृतं विराजताम्‌ ॥3॥ लोक0.........
गीतम्‌ - 7

वन्दे भारतमातरं वद

वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्‌
वन्दे मातरम्‌, वन्दे मातरम, वन्दे मातरम्‌ ॥
जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम्‌,
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम्‌ ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद्‌ दृष्टवताम्‌,
मातृसेवनादात्मजीवने सार्थकतामानीतवताम्‌ ॥1॥
ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः,
अर्थसंचयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः क्षणपरिवर्तिनी काये आत्मन्यादरधीः,
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम्‌ ॥2॥
मातस्त्वत्तो वित्तं चित्तं सत्वं प्रतिभादेहबलम्‌,
नाहं कर्त्ता कारयसि त्वं निःस्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले,
नान्यो मन्त्रः नान्यचिन्तनं नान्यद्‌देशहिताद्धिः ऋते ॥3॥
गीतम्‌ - 8

ध्येयपथिक साधक ऽऽ

ध्येयपथिक साधक ऽऽ
कार्यपथे साधय ऽऽ
मृदु हसन्‌ मधु किरन्‌ मातरं सदा स्मरन्‌॥
जीवनं न शाशवतं, वैभव न हि स्थिरम्‌
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरम्‌
सरलता स्वजीवने ऽऽ
समाजपोषिता वयं समाजपोषकारियम्‌॥
॥ध्येयपथिक॥
यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्‌, एति नित्यजीवने
जनन्यनन्यचरणयोः ऽऽ
समर्पितस्वजीवनाः ऽऽ
ध्येयसाधनाव्रता वयं भवेम र्सैंताः॥
॥ध्येयपथिक॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणम्‌
सिंहकुलसमुभद्रवाः सिंहविक्रमा वयम्‌
सन्तुकष्टकोटयो ऽऽ
भवतु विध्नवर्षणं ऽऽ
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम्‌॥
॥ध्येयपथिक॥

गीतम्‌ - 9

जय जय हे भगवति सुरभारति !

तव चरणौ प्रणमाम: ।।
नादतत्‍वमयि जय वागीश्‍वरि !
शरणं ते गच्‍छाम: ।।1।।

त्‍वमसि शरण्‍या त्रिभुवनधन्‍या
सुरमुनिवन्दितचरणा ।
नवरसमधुरा कवितामुखरा
स्मितरूचिरूचिराभरणा ।।2।।
आसीना भव मानसहंसे
कुन्‍दतुहिनशशिधवले !
हर जडतां कुरू बुद्धिविकासं
सितपंकजरूचिविमले ! ।।3।।
ललितकलामयि ज्ञानविभामयि
वीणापुस्‍तकधारिणि ! ।।
मतिरास्‍तां नो तव पदकमले
अयि कुण्‍ठाविषहारिणि ! ।।4।।
जय जय हे भगवति सुरभा‍रति !
तव चरणौ प्रणमाम: ।।
गीतम्‌ - 10

आयाहि रे

आयाहि रे ! आयाहि रे ! आऽऽयाहिरेऽऽऽ !
विहायसि-सराग-रश्मि-चन्द्रमा
तनोति सान्द्र-रोचि-मञ्जु-चन्द्रिका
सिन्धु-राव-घोषिता: रोदसि कन्दरा:
यान्तु यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
चन्द्रहास-मज्जिता तामसी-प्रिया
सर्व देह कान्ति-पुञ्ज-मञ्जु-वल्गना
निश्चला विभासते तार लोचना
यान्तु यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
सागरेण चुम्बिता चन्द्रिका मुदा
राजते विलास हास लास्य चित्रिता
रागिणीव भासते रागरञ्जिता
यान्तु यान-पात्र-चालका: सधीवरा: । आऽऽयाहि रे ॥
याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि !
श्री ओगेटि परीक्षित शर्मा
गीतम्‌ - 11
वाणी-वन्दना

वीणानिनादिनि देवि मातः शारदे शुभदे शुभे,
सौख्यप्रदायिनि बुद्धिदात्रि स्नेहदे सुखदे प्रभे।
हे ज्ञानदे वरदे प्रिये विद्याविभाविभुवल्लभे,
साहित्यवारिधिमञ्जने मतिदे शिवे मतिदे हि मे।। 1 ।।
अज्ञाननाशिनि भव्यभाषाभाषिणि प्रबलेऽबले,
विद्याविलासिनि शुभ्रवस्त्रो शास्त्रासारसुसारिणि।
कर्त्तव्यकर्मविभाविनि ध्रुवधर्मकर्मविबोधिनि,
मातः सरस्वति पाहि मां शरणगतं शरणप्रदे।। 2 ।।
धर्मार्थचिन्तनसंरते कतिकलाकलितेश्व रि
, संगीतगीतिसुगायिनि प्रतिभाप्रदानपरायणे।
हंसासने सुविराजिते सकलाश्रये जनमोददे,
मातः सरस्वति पाहि मां शरणागतं शरणप्रदे।। 3 ।। संसारबन्धनमुक्तिदे युक्तिप्रदे भुक्तिप्रदे,
हे हे दयामयि शक्तिदे भक्तप्रिये भक्तिप्रदे।
मायाममत्वविनाशिनि प्रज्ञापरे सन्मार्गदे,
मोहान्धकारनिमज्जितं मां पाहि हे सद्बुद्धिदे।। 4 ।।

गीतम्‌ - 12

सुन्दरसुरभाषा

मुनिवरसिकसित-कविवरविलसित-
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ।। मुनिवर.... ।।

वेदव्यास-वाल्मीकि-मुनिनां
कालिदास-बाणादि-कविनां
पौराणिक-सामान्य-जनानां
जीवनस्य आशा, सुन्दरभाषा ।। मुनिवर....।।

श्रुतिसुखनिनदे सकलप्रमोदे
स्मृतिहितवरदे सरसविनोदे
गति-मति-प्रेरक-काव्यविशारदे
तव संस्कृततिरेषा, सुन्दरभाषा ।। मुनिवर....।।

नवरस-रुचिरालङ्कृति-धारा
वेदविषय-वेदान्तविचारा
वैद्य-व्योम-शास्त्रादि-विहारा
विजयते धरायां, सुन्दरभाषा ।। मुनिवर....।।
लेखकः - नारायणभट्ट:
गीतम्‌ - 13

जयतु जननी

जयतु जननी जन्मभूमिः पुण्यभुवनं भारतम्,
जयतु जम्बूद्वीपमखिलं सुन्दरं धामामृतम्।
पुण्यभुवनं भारतम्।।

धरित्रोयं सर्वदात्री शस्यसुफला शाश्वती।
रत्नगर्भा कामधेनुः कल्पवल्ली भास्वती।
विन्ध्यभूषा सिन्धुरशना हिमगिरिशिखा शर्मदा।
रम्य-गंगा-संगयमुना महानदीह नर्मदा
कर्मतपसां सार्थतीर्थं प्रकृतिविभवालङ्कृतम्।। जयतु ....।।
आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता।
एकमातुः सुतास्सर्वे भाति दिव्या भव्यता।
यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता।
तथाप्येका ह्यद्वितीया राजते जातीयता।
ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम्।। जयतु....।।
आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम्।
योग-भोग-त्याग-सेवा-शान्ति-सुगुणैः पुष्पकलम्।
यत् त्रिरङ्गं ध्वजं विदधत् वर्षमार्षं विजयते।
सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते।
मानविकता-प्रेमगीतं विबुधहृदये झङ्कृतम्।। जयतु ....।।
लेखकः - हरेकृष्णमेहेर:
गीतम्‌ - 14

राष्ट्ररक्षाविधौ यास्ति काष्ठा परा
वन्द्यते सा मया वीरताया धरा,
स्वाभिमानादृते नास्ति किञ्चित्प्रियं देशसेवाविधौ दीयेत जीवनम्
गौरवायैव देशस्य यैरर्प्यते स्वं मनः, स्वा तनुः धनं सन्ततम्।
वीरपुत्रप्रसूः धीरता निर्भरा
वन्द्यते सा मया वीरताया धरा
यत्र राणाप्रतापस्य पादध्वनिः मातृभूः वक्षसि स्पन्दते सर्वदा
यत्र हममीरदेवस्य शस्त्रच्छटा दिक्षु विद्योतते सर्वदा मोददा
शत्राविध्वंसयज्ञेषु बद्धादरा
वन्द्यते सा मया शूरताया धरा,
यत्रा भक्तिस्वरूपा हि मीरा पपौ कृष्णप्रेमामृतं, ब्रह्मसायुज्यदम्
पाययन्ती सुधा भक्तिसर्घैंतिभिः पावयन्तीस्थिता या हि भूमण्डलम्
श्रीहरेः प्रेमपीयूषपाने रता
वन्द्यते सा मया भक्तिपूर्णधरा
संस्कृतिर्भारतीया सदा पाल्यते संस्कृतं जीवनञ्चापि संधार्यते
धर्मकर्मान्विता यत्समाजप्रथा विश्रुता विश्वमञ्चे यदीया कथा
– डॉ. इच्छाराम द्विवेदी ‘प्रणव’
गीतम्‌ - 15

भुवमवतीर्णा नाकस्पर्धिनी
भारतधरणीयं, मामकजननीयम् ॥
शिरसि हिमालय-मुकुट-विराजिता
पादे जलधिजलेन परिप्लुता
मध्ये गङ्गापरिसरपूता
भारतधरणीयं, मामकजननीयम् ॥१॥
काश्मीरेषु च वर्षति तुहिनम्
राजस्थाने प्रदहति पुलिनम्
मलयस्थाने वाति सुपवन:
भारतधरणीयं, मामकजननीयम् ॥२॥
नानाभाषि-जनाश्रय-दात्री
विविध-मतानां पोषणकर्त्री
नानातीर्थ-क्षेत्रसवित्री
भारतधरणीयं, मामकजननीयम् ॥३॥
पुण्यवतामियमेव हि नाक:
पुण्यजनानां रुद्रपिनाक:
पुण्यपराणामाश्रयलोक:
भारतधरणीयं, मामकजननीयम् ॥४॥
- जि. महाबलेश्वरभट्ट:

गीतम्‌ - 16

मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ लोकहितं॥
न भोगभवने रमणीयम्
न च सुखशयने शयनीयनम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रम
णीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्रा मया संचरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
गीतम्‌ - 17

संस्कृतस्य सेवनं, संस्कृताय जीवनम् ।
लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥
कार्यगौरवं स्मरन् विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यम: स्वयम् ।
यावदेति संस्कृतं, प्रतिजनं गृहं गृहम्
तावदविरता गतिस्तावदनुपदं पदम् ॥
कामये न सम्पदं भोगसाधनं सुखम्
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।
गौरवास्पदं पदं, नेतुमद्य संस्कृतम्
बद्धकटिरयं जनो निधाय जीवनं पणम् ॥
भाषिता च वागियं भाषिता भवेद् ध्रुवम्
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्
भरतभूमिभूषणं सर्ववाग्विभूषणम्
संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥
- जनार्दन हेगडे
गीतम्‌ - 18

सुरभारति देवि!

सुरभारति देवि सरस्वति हे।
प्रणमामि सदा तव पादयुगम्।।
विदुषां मतिदे, गतिदे, स्वरदे।
जयदे, विमले, ध्वले, वरदे।
जडतां हर भारति बुद्धिगतां।
प्रणमामि सदा तव पादयुगम् ।। 1 ।।
अयि कण्ठनिवासिनि हे शुभदे!
जनमानसवासविलासिनि हे!
जगदीश्वरि हे शतचन्द्रशुभे!
प्रणमामि सदा तव पादयुगम् ।। 2 ।।
अपहाय जटत्वमिदं निखिलं
परिपूरितभाननिधनयुतम्।
कुरु देवि! सुरेश्वरि मे हृदयं
प्रणमामि सदा तव पादयुगम। ।। 3 ।।
मनसा वचसा वपुषा सततं
तव पूजनमद्य मया क्रियते ।
मम वाचि सदा तव नाम भवेत्
प्रणमामि सदा तव पादयुगम् ।। 4।।
भवसागरपारमहो नु कथं
मम यास्यति जीवनयानमिदम्।
कविताकरणे मम यातु दिनं
प्रणमामि सदा तव पादयुगम् ।। 5 ।।
गीतम्‌ - 19

कुरुध्वमद्य सज्जताम्
कुरुध्वमद्य सज्जतां रणाय भो: सशस्त्रताम्
प्रयात राष्ट्रसैनिका: प्रयात राष्ट्रसैनिका: ॥
समिद्ध एष सङ्गर: प्रयान्ति सैनिका रणम्
समेत्य कुर्महे वयं रिपूंश्च धूलिसात् क्षणम् ।
संहताश्च सञ्जाता:ऽऽ युध्येमहि युध्येमहि
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका:॥ कुरुध्वमद्य ॥
मरुत्सुता: प्रकुर्महे स्वमुष्टिसाद् दिवाकरम्
अगस्त्यवत्पिबेम छुल्लुकीकृतं च सागरम् ।
बाला ह्यभिमन्यव:ऽऽ क्षणाज्जयेम चान्तकम्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥ कुरुध्वमद्य ॥
चन्द्रगुप्तमद्य संस्मरेम भीमविक्रमम्
धमनिसञ्चितं वितन्महे च शिवपराक्रमम् ।
महापरम्परामिमां च कुर्महे त्वखण्डिताम्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥ कुरुध्वमद्य ॥
अग्निकुण्डमत्र चण्डताण्डवं समन्तत:
निहत्य शक्तिमासुरीं विदध्महे तदाहुतिम् ।
वंश एष विख्यातो मार्ग एष नो महान्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥ कुरुध्वमद्य ॥
डा. श्रीकान्त बहुलकर:, श्री वामनराव् अभ्यङ्कर च
गीतम्‌ - 20
भजामि शैलसुतारमणम्
हे हर! शङ्कर! जीवनभारमुपाहर श्रीचरणम्
भजामि शैलासुतारमणम्।। 1।।
वसति नगेशः शैलशिलायाम्, प्रवहति गङ्गा शिरसि जटायाम्
द्वितीयाचन्द्रकलापरिचुम्बितभस्मययुतं वदनम्।। भजामि....।। 2 ।।
गजपतिचर्मविनिर्मितवसनम्, अहिपतिमालसमर्चितवदनम्।
त्रिपुरकथामास्मारयतीदं ते त्रितयं नियनम्।। भजामि ...।। 3 ।।
वृषभविलासी योगी शङ्कर हर परितापं त्रितयं शङ्कर!
वेदपुराणकथापरिचुम्बति सततं ते चरणम्।। भजामि ...।। 4 ।।
गीतम्‌ - 21

पाठयेम संस्कृतम्
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ॥
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेह-शक्ति-शील-शौर्य-देशभक्ति-भूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्य-भेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥
जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥
गीतम्‌ - 22

भारतं भारतीयं नमामो वयम्।।
सागरं सागरीयं नमामो वयम्।
काननं काननीयं नमामो वयम्।।
पावनं पावनीयं नमामो वयम्।
भारतं भारतीयं नमामो वयम्।।
पर्वते सागरे वा समे भूतले।
प्रस्तरे वा गते पावनं संगमे।।
भव्यभूते कृतं संस्मरामो वयम्।
भारतं भारतीयं नमामो वयम्।।
वीरता यत्र जन्माश्रिता संगता।
संस्कृतिर्मानवीया कृता वा गता।।
देव सम्मानितं पावनं संपदम् ।
भारतं भारतीयं नमामो वयम्।।
कोकिलाकाकली माधवामाधवी।
पुष्पसम्मानिता यौवनावल्लरी।।
षट्पदानामिह मोददं गुञ्जनम्।
भारतं भारतीयं नमामो वयम्।।

पूर्णिमा चन्द्रिक ा चित्
तसम्बोधिका।
भावसंवर्धिका चास्ति रागात्मिका।।
चञ्चलाचुम्बितं पावनं प्रांगणम्।
भारतं भारतीयं नमामो वयम्।।
गीतम्‌ - 23

सादरं समीहताम्

सादरं समीहतां वन्दना विधीयताम्।
श्रद्धया स्वमातृभूसमर्चना विधीयताम्॥
आपदो भवन्तु वा विद्युतो लसन्तु वा।
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥
प्राणदायिनीयं त्राणदायिनीयम्।
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनीयम्।
एतदीयवन्दने सेवनेऽभिनन्दने।
साभिमानमात्मनो जीवनं प्रदीयताम्॥२॥
गीतम्‌ - 24

सम्पूर्णविश्वरत्नम्

सम्पूर्णविश्वरत्नम्, खलु भारतम् स्वकीयम्.. स्वकीयम्
संपूर्ण विश्व रत्नम्।
पुष्पं वयं तु सर्वे,खलु देश वटिकेयं स्वकीयम्।
सम्पूर्णविश्वरत्नम्, खलु भारतम् स्वकीयम्.. स्वकीयम्

सर्वोच्च पर्वतो यो, गगनस्य भाल चुम्बी, -2
स: सैनिक: स: सैनिक: स: सैनिक: सुवीरः
प्रहरी च स: स्वकीयः स्वकीयः ।।

क्रोड़े सहस्रधारा,प्रवहन्ति यस्य नद्यः-२
उद्यानमभिपोष्यम्,भुविगौरवं स्वकीयम्।। स्वकीयम्...

र्मस्य नास्ति शिक्षा,कटुता मिथो विधेया,- २ एको वयम्, एको वयम्, एको वयम् तु देशः,
खलु भारतम् स्वकीयम् स्वकीयम्...

संपूर्ण विश्व रत्नम्,खलु भारतम् स्वकीयम्.. स्वकीयम्
संपूर्ण विश्व रत्नम्।


सादरम्-संस्कृतभाषी ब्लाग।
Top