॥यदि इन्धनं
नास्ति तर्हि वायुना
यास्यति मम यानम्॥
नहि कदापि भेतव्यं प्रत्यूहाद्
विकटादपि !
बुद्धिर्यावन्नृणां स्वस्था प्रत्यवायो
न विद्यते!!
"महता वेगेन
शतश: योजनानि
प्रवसामि,
प्रवसोऽपि च मम आनन्ददायक: भवतु" इति
विचिन्त्य
मानवेन कारयानानि
निर्मितानि।
वातानुकूलिते
नितरां च सुखदायके याने उपविश्य
इदनीं विश्वे सर्व-मानवा:
यत्रां कुर्वन्ति
इति वयं
जानीम एव। शतश:
निगमा: विविध-अपेक्षा: तोषयितुं सहस्रधा कारयानानि
निर्मान्ति।
एतावता एव इन्धनस्य
न्यूनता, प्रदूषणात्
च वैश्विक-तापमानस्य
वर्धनम् इत्यादय: समस्या: उद्भूता:। प्रकृत्या
आह्वानं कृतम्-
"रे मानव! आसां समस्यानां
समाधानं चेत् कर्तुं शक्नोषि तदा कामं
एतै: सुखदायकै:
यानै: प्रवासं
कुरु, नो
चेत् पुन:
अश्वारूढो
रथारूढो वा भव"
इति।
मनवो॓ऽपि वदति, "समस्याभ्य:
न भीतोऽहं
यावद् एषा मम बुद्धि: मयि अनुग्रहवती
अस्ति" इति। मानवेन
इदनीं इन्धन-निरपेक्षानि वायु-सञ्चालितानि यानानि निर्मितानि
सन्ति!!
पूर्वतन-फ़ार्म्यूला-वन-अभियन्त्रा गाय-नेग्रे-महोदयेन
एतादृशं यानं प्रकल्पितम्
अस्ति। टाटा-मोटर्स-द्वारा
मिनि-केट्-नामकम् एतादृशं यानं शीघ्रमेव
भरते विक्रयणार्थम्
उत्पादयिष्यते इति श्रूयते।
केवलं सार्ध-त्रिलक्ष-रुप्यकै:
प्राप्स्यमाणम्
एतद् यानं
५०रुप्यकात्मकेन
संकोचित-वायुना
पूरित: सन् १००कि.मि
चलिष्यति।
चलनसमये यानेन निष्कास्यमान:
शुद्ध: वयु: इयान् शीतल: भविष्यति,
यत् तस्य
उपयोग: शीतक: इव
कर्तुं शक्ष्यते।
पुनरपि मानव: प्रकृतिम्
उवाच- "अयि प्रकृते!
एषा समस्या
तु सुष्ठु
समाहिता....
इतोऽपि समस्या: प्रेष्यताम्।
ताभि: मम
विकास: एव भवति!!"
इति शिवम्।
Dipesh Katira
CISTS, HSS, IIT Bombay