डॉ.
हरेकृष्ण-
मेहेरः
संस्कृति-गीतिका
[ 'पुष्पाञ्जलि-विचित्रा' गीतिकाव्यतः]
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
।
शुचि-वर्णम्, अन्तःकरणम्,
भुवि भव्या
प्रतिभा विभास्वती
।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (ध्रुवम्)
*
गुण-समुज्ज्वला सौम्या
सुजला भारत-जननी,
वैभव-पूर्णा मधुराभरणा
भुवन-पावनी
।
सुनिर्मला, रम्योर्मि-चला,
इह गङ्गा
यमुना सरस्वती ।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (१)
*
विश्व-विश्रुता श्रुतिरनवद्या
विद्या सकला,
चर्चित-विबुधा ललिता
विविधा प्रिय-चारु-कला
।
विराजते,
निखिल-भारते,
परमार्या परम्परा
महती ।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (२)
*
सङ्गीत-सुधा सङ्गत-रङ्गा
जन-मनोहरा,
प्रसरति नित्यं
नृत्य-माधुरी
रस-राग-भरा
।
चित्र-कला, सुपवित्र-फला,
प्रति-हृदयं प्रमुदं
वितन्वती
।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (३)
*
शिव-सङ्कलपा शिल्प-चातुरी
वाङ्मयाङ्किता,
स्थापत्य-दिशा मन्दिर-माला
समभिनन्दिता
।
सुरञ्जिनी, ताप-भञ्जिनी,
चिर-सुभगा शुभ-कीर्त्ति-व्रतती
।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (४)
*
जीवन-धारा विगत-विकारा
वहतु सौख्यदा,
मानवताया ज्योति-र्दिव्यं
लसतु सर्वदा
।
जागरणे, कर्माचरणे,
इह सुजनो
महतां तपोव्रती ।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (५)
*
संहति-सूत्रा भारत-पुत्रा
मैत्री-भरणे,
शान्ति-भावना धार्या
नियतं पर्यावरणे
।
मातृ-पदे, मङ्गलास्पदे,
प्रणति-र्नो नितरां
भक्तिमती
।
विजयतेतराम् ॐकार-भारती,
संस्कार-भारती
॥ (६)
* *
(कविना स्वोद्भावित-मौलिक-छन्दसा
प्रणीता इयं गीतिका
।
कहरवा-ताल-मध्यलयेन इयं परिवेषणीया
।)
* *
Original
Sanskrit in Roman Script :
Sanskriti-Gītikā (Song of Culture)
[ From Sanskrit Gīti-Kāvya ‘Pushpāñjali-Vichitrā’ ]
= = = = = = = = = = = = = = = = =
Vijayatetarām OM-kāra-Bhāratī,
Samskāra-Bhāratī.
Śuci-varņam, Antah-karaņam,
Bhuvi bhavyā pratibhā vibhāsvatī
/
Vijayatetarām OM-kāra-Bharatī, Samskāra-Bhāratī
// (0)
*
Guņa-samujjvalā saumyā
sujalā Bhārata-jananī,
Vaibhava-pūrņā madhurābharaņā
bhuvana-pāvanī.
Sunirmalā, Ramyormi-calā,
Iha Gańgā Yamunā Sarasvatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (1)
*
Viśva-viśrutā śrutiranavadyā
vidyā sakalā,
Carcita-vibudhā lalitā
vividhā priya-cāru-kalā.
Virājate, Nikhila-Bhārate,
Paramāryā paramparā
mahatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (2)
*
Sańgīta-sudhā sańgata-rańgā
jana-manoharā,
Prasarati nityam nritya-mādhurī rasa-rāga-bharā.
Citra-kalā, Supavitra-phalā,
Prati-hridayam pramudam vitanvatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (3)
*
Śiva-sańkalpā śilpa-cāturī
vańmayāńkitā,
Sthāpatya-diśā mandira-mālā
samabhinanditā.
Surañjinī, Tāpa-bhañjinī,
Cira-subhagā śubha-kīrtti-vratatī/
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (4)
*
Jīvana-dhārā vigata-vikārā
vahatu saukhyadā,
Mānavatāyā jyotir
divyam lasatu sarvadā.
Jāgaraņe, Karmācaraņe,
Bhavatu jano mahatām tapo-vratī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (5)
*
Samhati-sūtrā Bhārata-putrā
maitrī-bharaņe,
Sānti-bhāvanā dhāryā
niyatam paryāvaraņe.
Mātri-pade, Mańgalāspade,
Praņatir no nitarām
bhaktimatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī
// (6)
= = = = = = = = = = = = = =
{डॉ. हरेकृष्ण- मेहेरः कविः हरेकृष्ण-मेहेरः
आधुनिक-संस्कृत-साहित्यस्य
अन्यतमः सुपरिचितः
सारस्वत-साधकः
। स संस्कृत-विद्वान्,
अध्यापकः,
गवेषकः, समालोचकः, गीतिकारः, स्वर-रचनाकारः,
सुवक्ता मौलिक-लेखकः सफलानुवादकश्च
। ओड़िशा-राज्यस्य
नूआपड़ा-जिल्लान्तर्गते
सिनापालि-ग्रामे
१९५६-ईसवीय-वर्षे
कवि-परम्परा-वाहिनि
वंशे स लब्ध-जन्मा
। तस्य पिता दिवंगतः
कविः नारायण-भरसा-मेहेर:,
माता श्रीमती
सुमती देवी । पितामहः
दिवंगतः कविः मनोहर-मेहेरः
ओड़िआ-साहित्ये पश्चिम-ओड़िशायाः
'गणकवि'-रूपेण चर्चितः}