Jahnavi Sanskrit Journal (ISSN 0976-8645) :
Download complete issue.
षट्त्रिंश-सप्तत्रिंशसंयुक्ताङ्के भवतां समेषां मङ्गलाभिनन्दनम्।
विषयानुक्रमणिका
उद्घाटनम् - परमपूज्याः यतिकुलचक्रवर्तिनः श्री श्री विश्वेशतीर्थ महास्वामिनः , पीठाधिपतयः, पेजावर मठः तथा परमपूज्याः श्री श्री विद्याधीशतीर्थ महास्वामिनः , पर्याय पीठाधिपतयः, उडुपि श्रीकृष्णमठः स्थलम् - राजाङ्गणम् , श्रीकृष्णमठः , उडुपि. दिनाङ्कः - 9th March समयः - 17:30 सन्दर्भः - श्रीराघवेन्द्रतीर्थमहास्वामिनां वर्धन्त्युत्सवे संयोजकः - डा. सुमन् आचार्यः , प्राध्यापकः, लोयोला महाविद्यालयः तथा उपसंपादकः , जाह्नवी अन्ताराष्ट्रियसंस्कृतपत्रिका ===================================================================================== मुख्यसम्पादकः विद्यावाचस्पति-डा.सदानन्दझाः । सम्पादकाः डा. मीनाक्षीजोशी, डा. सुमनदीक्षितः, विद्वान् सुमन् आचार्यः, डा. श्लेषा सचिन्द्र, डा. बिपिनकुमारझा । विशिष्टपुनर्वीक्षकाः Dr. PK Wendabona, Department of Basic Principles, Institute of Indigenous Medicine University of Colombo, Rajagiriya Sri Lanka प्रकाशकः डा. बिपिनकुमारझा । प्रतिनिधयः (लोकार्पणसन्दर्भे) विद्वान् सुमन् आचार्यः तकनीकिप्रवन्धनसहायकः रित्ज़ वेब होस्टिंग, बंगलोर ===================================================================================== विषयानुक्रमणिका मुख्यसम्पादकीयम् डा. सदानन्द झा प्रकाशकीयम् डा. बिपिन कुमार झा 1 विदुरोपदेशस्य सार्वकालिकत्वम् डा. एस्. आनन्दतीर्थः डा. श्रीनिवास कुमारः एन्. आचार्यः 2 वचनान्तस्तत्त्वं तदाधृतस्साहित्यशास्त्रीयसन्दर्भश्च श्री नारायणदत्तमिश्रः 3 कोष सञ्चयन : भारतीय लोकहितकारी दृष्टिकोण में श्री नीटूदत्त नौटियाल 4 अर्थशास्त्र में वर्णित कृषिव्यवस्था की वर्तमान में प्रासंगिकता डा.देवी सिंह 5 न्यायनये पदवृत्तिविचारः श्रीमती वाणी मञ्जुनाथ हेगडे 6 छान्दोग्योपनिषदि यज्ञप्रकरणान्तर्गते आत्मतत्त्वविद्यानुकूल्ये धनविज्ञानसमीक्षणम् रीतापाल 7 दक्षिणामूर्ति शिव अष्टमूर्तिस्वरूप शिव एवं शंकराचार्यस्वरूप: एक विमर्श डा. मीनाक्षी जोशी 8 Development of Economic Botany through Ages in Indian Perspective Dr. Dhananjay Vasudeo Dwivedi 9 ओङ्कार का तात्विक विमर्श डा. बिपिन कुमार झा 10 Women and Civil Administration in Mahabharata Shri Mahesh 11 काव्यप्रकाश के अनुरूप ध्वनिविमर्श स्वटीरानी 12 ज्योतिषशास्त्रे वनस्पतेः वपनकलनिर्धारणम् श्रीकृष्णकुमारमिश्रः 13 वैदिककृषिविज्ञानस्वरुपविमर्शः श्री अखिलेशः 14 महर्षिपतञ्जलिः तन्महाभाष्यञ्च श्री गिरीशकुमारमिश्रः 15 आधुनिकपरिप्रेक्ष्ये शास्त्रस्य अध्ययनम् अध्यापनञ्च डा. भगवानसामन्तरायः 16 कतिपयशब्दानां साधुत्वासाधुत्वभ्रमनिवारणम् डा.जयकृष्णः 17 ज्यौतिषशास्त्रे विवाहकालविमर्शः श्री संतोष कुमार पाठक 18 वैयाकरणसिद्धान्तकौमुद्याः कारकप्रकरणे कर्मप्रवचनीयसंज्ञाविमर्शः श्री अभिषेकमुखोपाध्यायः 19 संस्कृतनाटकेषु भाषावैचित्रम् श्री दीपङ्कर मण्डल 20 जनतन्त्रं शिक्षा च डा. निवेदिताकर 21 पर्यावरणसंरक्षणे संस्कृतस्योपयोगिता डा. रश्मिकुमारी 22 मनुस्मृति के आलोक में दण्डविधान डा. गीता शुक्ला 23 व्यक्तित्व विकास में योग की भूमिका डा. प्रेमसिंह सिकरवार ================================================================================================================ सम्पादकीयम् शिवशिरसि वसन्ती संविदानन्दनीरा हृदयकलुषपुञ्जं प्रक्षिपन्ती विदूरे। सघनतमसि दिव्यं ज्योतिरालोकयन्ती प्रसरतु भुवि भव्या भारती काऽपि दिव्या॥ अये श्रीमन्तस्तत्र भवन्तः सुरसरस्वती सम्भृतस्वान्ता विविधविद्याविद्योतितान्तःकरणा नानाछात्रसमुपा-स्यमानचरणा ज्ञानप्रभाध्व-स्ताऽज्ञानावरणा भारतीयसंस्कृतिसेवासमाराधनतत्पराः विद्वन्मणयः सुरभारतीपदकमलानुरागिणश्च! संसारस्य प्रथमान्तर्जालीयसंस्कृतत्रैमासिकजाह्नवी-पत्रिकायाः षड्त्रिंशसप्तत्रिंशसंयुक्ताङ्कमिमं सहृदय-विदुषां नयैकबद्धपक्षपातानां पाठकानां पुरतः प्रस्तुवन् महान्तमानन्दमनुभवामि। जाह्नव्याः प्रारम्भकालादेव संस्कृतप्रचारप्रसाराय देशे-विदेशे च पत्रिका लोकार्पणकार्यक्रमसमारोहः आयोज्यते अस्माभिः। एतत् परम्परायाम् अमेरिका-अटलाण्टादि स्थानेष्वपि तत्रस्थितैः प्रख्यातविद्वद्भिः कृतः। एतदर्थं प्रस्तुताङ्कस्य लोकार्पणकार्यक्रमः उडुपिनगरे स्वनामधन्यैः विविधबुधवन्दितचरणैः पेजावरमठपीठाधिपतिपरमपूज्यैः यतिकुलचक्र-वर्तिचूडामणिभिः श्रीश्री विश्वेशतीर्थमहास्वामि-महोदयैः अपि च उडुपिस्थश्रीकृष्णमठपीठाधिपति-परमपूज्यश्रीश्री विद्याधीशतीर्थमहास्वामिमहोदयैः विविधप्राशासनिककार्यव्यस्तैरपि अस्माकं सौभाग्यवशात् समवेतरूपेण पत्रिकालोकार्पणकृते स्वीया कृपानुमतिः प्रदत्ताऽस्ति एतदर्थं श्रीचरणान् श्रद्धयास्तवीमि। वस्तुतः समेषां राष्ट्रियान्ताराष्ट्रियतत्वचिन्तकानां सुरसरस्वतीमन्तेवासिनां वाग्देवतावरदतनयानां शेमुषीजुषां विदुषां च सत्प्रयासेनेयं पत्रिका शुक्लपक्षीयचन्द्रवद्वर्द्धन्ते वर्द्धिष्यन्ते च। प्रस्तुताङ्के यद्यपि नानाराज्येभ्यः बद्धपरिकराणामाचार्याणामालेखाः पाण्डित्यपूर्णाः विविधशास्त्रीयशोधनिबन्धाः सम्प्राप्ताश्चयनसमि-त्यनुशंसया समावेशिताश्च तथापि वचनान्तस्तत्वं तदाधृतसाहित्यसन्दर्भसविमर्शश्च, वैदिकविज्ञान-स्वरूपविमर्शः, ज्यौतिषशास्त्रे विवाहकालविमर्शः, शब्दसाधुत्वपरिशीलनमित्यादयः पण्डितानां विशेषतः प्रीतिकराः विद्यन्ते। विविधप्रान्तस्थाः विविधशास्त्रविचारदक्षाः विविध-शास्त्रनिष्णाताः गरिष्ठाः वरिष्ठाः विद्वांसः स्वकीयालेखप्रेषणकृपाभिरतितरां समुत्साहितवन्त इति तेषामनारतं प्रणामाञ्जलिं प्रस्तूयते। यथैव परमेश्वरस्य भवानीनाथस्य जटातः प्रवहन्ती भागीरथी जाह्नवी त्रैलोक्यं पुनाति मज्जतां मनोनिर्मलं प्रसादयति मुक्तिपथं तथैवेयं मदीयेयं जाह्नवीपत्रिका विविधबुधानां शारदासेवन-तत्पराणां हृदि दिव्यसौरभं प्रसादं विधत्तामिति वयं कामयामहे। सुरसरस्वत्या सेवाविविधेलिमेतिमत्यैव पत्रिका सम्पादने प्रवृत्तोस्मि। पत्रिकेयं सर्वथा राजनीति-विमुखा शास्त्ररसिका संस्कृतप्रचारप्रसारे बद्धपरिकरा च सर्वदैव वर्त्तते। अन्ते सानुनयं निवेदनं च सम्पादनादक्षतया मदीयबुद्धिदोषेण येऽशुद्धयस्त्रुटयस्तान् स्वयं संशोध्य व्यवहरन्तु सूचयन्तु चेति सकृपमिति भूयोभूयः सम्प्रार्थ्यमानो भावत्कः श्रैमत्कः। झोपाख्यः सदानन्दः अन्ताराष्ट्रयमहिलादिवसः ============================================================================================================================================== प्रकाशकीयम् साम्प्रतं विश्वस्मिन् विश्वे सर्वत्र भारतस्य अभिनन्दनं दरीदृश्यते। कर्त्तव्यपथि ये भवन्ति ते एव देशसमुन्नतये मार्गं निर्मान्ति। प्राचीनकाले भारते ऋषयः राष्ट्रसमुन्नत्यर्थं धर्माचरणं विधाय मार्गं प्रादर्शयत् तत्रैव दुर्जनाः आततायिनः आतंकमुत्पादयन्ति स्म। साम्प्रतिके युगेऽपि भारते गंगायमुनयोः संगमे सरस्वस्वत्यवगाहनं विधाय सर्वे नागरिकाः ऋषयश्च देशस्य सर्वविधसमुन्नत्यर्थं धर्माचरणं कुर्वन्तः आसन् तदानीन्तने काले एव आततायिनः आतङ्किनः दुराचारिणः जघन्यापराधं कृतवन्तः। कीर्तिजीविनः नैके वीरसेनानयः प्राणार्पणद्वारा भारतमातुः रक्षणं कृतवन्तः। कर्णभारे आचार्यभासः कथयति हुतं च दत्तं च तथैव तिष्ठति । अस्माकं शास्त्रे उक्तम् अस्ति ’आततायिनः वधार्हाः’। कदाचित् इति एव विज्ञाय अस्माकं यशस्विनः प्रधानमन्त्रिणः वायुसैनिकमाध्यमेन आतंकवादीन् यमलोकं प्रति सम्प्रेषितवन्तः। अस्माकं राष्ट्ररक्षकाः एते वीरसैनिकाः सर्वदा सर्वथा अभिनन्दनीयाः। एते अस्मान् शिक्षयन्ति यत् सहजं कर्म प्राणार्पणेन विधेयम्। आचार्यः कालिदासः शाकुन्तलस्य षष्ठे अङ्के आदौ एव सहजं कर्म समाचरणीम् इति निर्दिशति। भगवान् नारायणः अपि सहजं कर्म कौन्तेय इति वचनद्वारा अस्मान् अग्रेसारयति। पत्रिकेयमपि सहजकर्मणि अनारतं व्यापृता वर्तते। राष्ट्रस्य समुन्नत्यर्थं सारस्वतसाधनारता ये तपस्विनः तेषां मनोभावान् शोधपत्रमाध्यमेन अभिव्यनक्ती निजकर्त्तव्यपथि सर्वान् प्रेरयन्ती अनारतं प्रवहन्ती कलकलनिनादकुर्वन्ती हसन्ती लसन्ती इयं जाह्नवी विश्वशान्तिनिमित्तं महाशिवरात्र्युत्सवे कालकूटविषपानं विधाय विश्वरक्षकान् पार्वतीजानीन् प्रार्थयते। अस्माकं ऋषयः एतत् सर्वं मनसिनिधाय विश्वशान्तये राष्ट्रमंगलाय च उक्तवान् अस्ति। ओ३म् आ ब्रह्मन् ब्राह्मणों ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरऽइषव्योऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढ़ाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्॥ - यजुर्वेद २२, मन्त्र २२ अन्ते सम्पादन-पुनर्वीक्षणकर्मसु ये प्रत्यक्षाप्रत्यक्ष-सहायकाः तेषां हार्दं धन्यवादान् ज्ञापयामि। विद्वच्चरणचञ्चरीकः झोपाख्यः बिपिनकुमारः। महाशिवरात्रिः ==============================================================================================================
'
This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha.
The Web
The Web Page of JSEJ