शिवशिरसि वसन्ती संविदानन्दनीरा
हृदयकलुषपुञ्जं प्रक्षिपन्ती विदूरे।
सघनतमसि दिव्यं ज्योतिरालोकयन्ती
प्रसरतु भुवि भव्या भारती कापि दिव्या।।
अये मान्यमान्याः सुरसरस्वतीस्नेहसम्भृतस्वान्ताः शास्त्रविचारपरिशीलनलब्धजनाः भारतीयसंस्कृतसेवा समाराधनरताः शास्त्रसमुत्थसुधारसास्वादकुशलाः गुणैकपक्षपातिनः संस्कृतानुरागिणः पाठकाश्च।
संसारस्य प्रथमान्तर्जालीयसंस्कृतत्रैमासिकजान्हव्याः पत्रिकायाश्चतुश्चत्वारिंशदङ्कमिमं साम्प्रतं द्रुहिणगृहिणीसपर्यारतानां विद्वद्वर्गाणां तत्र भवतां श्रीमतां सकलशास्त्रनिष्णातानां संस्कृतसमाराधनतत्पराणामाचार्याणां करकमलयोः समर्पयन् मोमुद्यते मे मनः।
विदन्त्येव विद्वांसो यदधुना विज्ञानप्रभावात् सम्पूर्णजगति कुटुम्बायमाने अस्याः सुरभारत्या प्रचारप्रसारश्च सुकरः संवृत्तः। एकादशवर्षादधिककालात अस्याः लोकार्पणकार्यक्रमाः देशे-विदेशे अमेरिकास्थ-अटलाण्टानगर्यादिष्वपि कार्यक्रमाः सम्पन्ना अभूवन्।
एतत्परम्परायामस्माकं परमसौभाग्यवशादेव श्रीलंकास्थकोलम्बो-विश्वविद्यालयीय-बौद्धदर्शनविशिष्टप्राचार्य-पदममलङ्कुर्वद्भिः चतुरश्रवैदुष्यमण्डितैः स्वनामधन्यैः प्रो. असंगतिलकरत्ने महोदयैः विविधप्राशासनिककार्यक्रमव्यस्तेनापि पूर्वमेवलोकार्पणकार्यक्रमहेतवे स्वकीया कृपानुमतिः प्रदत्तास्ति एतदर्थं तान्प्रति श्रद्धया स्तवीमि।
इदानीं जान्हव्यामाध्यमेन देशे विदेशे च महत्त्वाधायिनः संस्कृतग्रन्थाः अनूद्यन्ते अभिनीयन्ते प्रचार्यन्ते सम्मान्यन्ते च तत्वान्वेषण पराणामाचार्याणां शोधनिबन्धा प्रकाश्यन्ते च।
प्रकृताङ्के द्वाविंशतिसंख्यकाः शोध-आलेखाः सर्वेपि महत्वपूर्णास्तथापि कालः कलयतामहम्, अर्वाचीनसंस्कृतसवर्धने रामजीठाकुरस्य योगदानम्, सम्प्रदानसंज्ञाविचारः, वैशेषिकदर्शने शब्दस्यगुणत्वसिद्धिः, अथर्ववेदे रसायनविज्ञानम्, काव्यशास्त्रे प्रयोजनस्वरूप विमर्शः, निरूक्ते व्याकरणांशाः, संस्कृतसाहित्येनारीणां स्थितिरित्यादयः सारस्वतसमुपासकानामाचार्याणां मनसि नियतं कवलीकरिष्यति।
जानन्त्येव शास्त्ररसिकाः संस्कृतपत्रिका संचालनकार्यमणिमण्डितव्यालस्य परिष्करणमिवकठिनं तथापि चतुरश्र वैदुष्यमण्डितानां केषाञ्चन राष्ट्रियान्ताराष्ट्रियविशिष्टविदुषां सहयोगमवाप्य सारस्वतरङ्गस्थले सन्ततं नृत्यति।
एतदर्थं तेभ्यः भूयोभूयः कार्तज्ञ्यं प्रकटयति सकलजाह्नवीपरिवारः। एतेषां शोध-आलेखानां सम्पादनं भूरि परिश्रमेण मयाकृतम्। किन्तु मुनीनामपि भ्रमो जायते का कथा मादृशानामल्पज्ञानाम् एतदर्थ साञ्जलिं त्रुटिनिमित्तकं क्षमां याचे। आशासे पत्रिकेयं संस्कृतसाहित्यसैवकैः विद्वद्भिश्चनूनं समादृता भविष्यति। पार्वतीजानि कृपया जायतां पत्रिकेयं सुरभारती प्रचारप्रसाराय संस्कृतगम्भीरपरिरक्षणाय विदुषां मनोविनोदाय अनुसन्धत्सूनामुपकाराय भारतीयसंस्कृतरक्षणाय मंगलाय चेतिकामये।
श्रुतिध्वनिमनोहरा मधुरसा शुभापावनी
स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा
निषेव्य पदपङ्कजा विबुधवृन्दमान्यामला
समस्तजगतीतले प्रवहृतदियं जाह्नवी।।
विदुषामनुचरः
झोपाख्यः सदानन्दः
लगमास्थ जे.एन.बी आदर्शसंस्कृतमहाविद्यालयस्य