WELCOME- 45th-46th ISSUE
 
LAST UPDATE- 17/12/2021 07:49 PM
  • E-Mail:    jahnavisanskritjournal@gmail.com     Mob :   +91-9459456822      Sign in          Log in Account  
    SUBSCRIBE
    (Scan, Touch or Click)
    SEND YOUR PAPER
    (Scan, Touch or Click)
    INQUIRY
    (Scan, Touch or Click)
    REVIEW REQUEST
    (Scan, Touch or Click)
    REVIEW FORM
    (Scan, Touch or Click)

    Passing through transition time phase our India needs that the vacuum between our traditional root value, heritage and modern young generation must be covegreen. 
    SUBSCRIBE OUR YOUTUBE CHANNEL अभिनवाङ्के भवतां हार्दं स्वागतम्।। चरन् वै मधु विन्दति चरन् स्वादुमुदुम्बरम्। सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन् चरैवेति॥  (Always move onwards; it is the path to get the highest goal.)  EtareyaBrahmaņ

    प्रकृताङ्कविवरणम्
  • Inaugration- Prof Tankeshwar Kumar Hon’ble Vice-Chancellor, Central University of Haryana, Mahendragarh
  • Place- Online through G-Meet
  • Date - 18th December, 2021 11:00 AM
  • Representative- Dr. Bipin Kumar Jha


  • मुख्यसम्पादकः डा. सदानन्द झा (डी. लिट्)
    सम्पादकमण्डलम् (प्रकृताङ्कस्य)
  • डा. मीनाक्षी
  • डा. सुनील के.एस्.
  • डा. श्लेषासचिन्द्र
    प्रबन्धसम्पादकः - डा. बिपिन कुमार झा
    परामर्शदातारः (प्रकृताङ्कस्य)
  • प्रो. मुरलीमनोहरपाठकः
  • प्रो. शशिनाथझाः
  • प्रो. ब्रजभूषणओझाः
    मुख्यपुनर्वीक्षकाः (प्रकृताङ्कस्य) प्रो. पीयूषकान्तदीक्षितः
  • डा. राधामाधवभारद्वाजः
  • डा. सन्दीपसरकारः
    सम्पादनसहायकाः (प्रकृताङ्कस्य)
  • डा. राधावल्लभशर्मा
  • डा. दीपिका
    तकनीकिसहायकः (प्रकृताङ्कस्य) - श्रीमनीषमिश्रः
    मीडियाप्रभारी
  • डा. रामसेवकझाः
  • डा. नारायणदत्तमिश्रः

    1. Name-
    Jahnavi Sanskrit E- Journal

    2. Journal's Website -
    www.jahnavisanskritejournal.in.

    3. International Standard Serial Number (ISSN)
    0976-8645

    4. UGC Approved Journal Number (Under University Grant Commission, Govt. India Approved List of Journals)- 41039 and applied for UGC CARE on 23/6/2019.

    5. Impact Factor (JF2451)

    6. Copyright (Under Copyright Act, 1957, Govt. of India)

    7. Contact- Call/Whats app/Telegram
    945-9456-822 jahnavisanskritjournal@gmail.com

    COMPLETE ISSUE

    Read : मुख्यसम्पादकीयम् डा. सदानन्द झा


    Dr. Sadanand Jha (D. Lit.),
    Editor in Chief
    Jahnavi Sanskrit E Journal,
    Associate Professor and Head, Department of Vyakaran,
    J.N.B. Adarsh Sanskrit College (Under MHRD GoI), Lagama , Darbhanga, Bihar.
    मुख्यसम्पादकीयम्

    शिवशिरसि वसन्ती संविदानन्दनीरा हृदयकलुषपुञ्जं प्रक्षिपन्ती विदूरे। सघनतमसि दिव्यं ज्योतिरालोकयन्ती प्रसरतु भुवि भव्या भारती कापि दिव्या।।

    अअये सुरभारतीसमुपासकाः नानाशास्त्रनिष्णाताः शास्त्रमन्थनसमुत्थ सुधारसास्वाददक्षाः चतुरस्रवैदुष्यमण्डिताः महापण्डिताः महाकवयः संस्कृतानुरागिणः सहृदयपाठकाश्च संसारस्य सर्वप्रथमान्तर्जालीयसंस्कृतत्रैमासिक-जाह्नव्याः संस्कृतपत्रिकायाः पञ्चचत्वारिंश-षट्चत्वारिश-संयुक्ताङ्कमिमं सुरभारतीसमुपासकानामनारतं विविधविशिष्टग्रन्थप्रणयनबद्ध-परिकराणामाचार्याणां करकमलयोः सादरं सश्रद्धं सस्नेहं समर्पयन् नितरां प्रमोदमनुभवामि। पत्रिकायाः प्रारम्भकालादेव सारस्वतसमुपासकानां विविधविद्याविद्योतितान्तःकरणानांमहाविदुषां करकमलाभ्यां लोकार्पणपरम्पराऽस्माभिरङ्गीकृता। एतत्परम्परायांप्रकृताङ्कस्य लोकार्पणाय हरियाणाकेन्द्रीयविश्वविद्यालयस्य कुलपतिपदममलङ्कुर्वद्भिः विविधशास्त्रनिष्णातैः करुणामूर्तिभिः स्वनामधन्यैः श्रीमद्भिः प्रोफेसर्-टङ्केश्वरकुमारमहाभागैः विविधप्राशासनिकार्यव्यस्तैरपि स्वकीयाकृपानुमतिः प्रदत्तेति। अत एतेभ्यः महोदयेभ्यः प्रणतिपुरस्सरं सश्रद्धं कार्तज्ञं प्रकटयति सकल जाह्नवीपरिवारः। प्रकृताङ्के चतुर्विंशतिसङ्ख्यका शोध-आलेखाः विभिन्नप्रान्तेभ्यः नानाशास्त्रीयसम्प्राप्ता। यत्र चयनसमित्यनुशंसया पक्षपातशून्यमनसा पत्रिकायां समावेशिताः । सर्वेऽपि आलेखाः पाण्डित्यपूर्णास्तत्र अङ्गवृत्तपरिभाषा, महाभारत में गङ्गा महात्म्य, पाण्डित्यपूर्णाः आलेखाः सन्ति तेष्वपि- शब्दशुद्धिप्रतिपादने भामहवामनयोः पारस्पारिकं वैमत्यम् : एकमध्ययनम्, प्रत्याहारेष्वितां ग्रहणविषये ज्ञापकाः, Relevance of Yogashastra in Preservation of Human Life, Awareness of Air Pollution in Vedic Literature, योगदर्शने नञर्थघटितसिद्धान्तविमर्शः, The Cult of Gāyatrī: A Study, महाकविकालिदासकृतिषु स्त्रीपात्र-प्रकृतिविमर्शः, समग्र-स्वास्थ्य् के उपस्तम्भ आहार के विशेष परिप्रेक्य्ष में यौगिक ग्रन्थानुशीलन, हठप्रदीपिका के विशेष परिप्रेक्ष्य में योगाङ्ग प्राणायाम की अवधारणा इत्यादयः विदुषांमनसि नियतं कवलीकरिष्यति। प्रकृतशोधनिबन्धेषु नानाशास्त्राणां गूढविवेचनं विद्बद्भिः विहितम्। श्रुतिर्विभिन्ना स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं न भिन्नमित्यभिधानं न केवलं धर्मशास्त्रमवगाहते अपितु ज्यौतिष-काव्य-व्याकरण-दर्शनादिविविधप्रस्थानेषु मतवैभिन्यमाचार्याणां विशिष्टवैदुष्यप्रभवं प्रौढपाण्डित्य-मर्वाचीनविशिष्टविदुषांवैदुष्यानुत्प्रेरयत् समये समये तत्कृतैर्नवीनालोकविभ्राजयति संस्कृतसंसारमिति। सर्वं द्रष्टुं शक्यतेगहनविवेचनेन प्रकृताङ्कनिबन्धेषु जानन्त्येव शास्त्ररसिकाः पत्रिकायाः मूलमुद्देश्यमस्ति यत् पारम्परिकसंस्कृतविद्यायाः संरक्षणं संवर्द्धनम् सम्प्रसारणम् चेति सदैव राजनीतिविमुखेयं पत्रिका। अत्र ये आलेखाः सम्प्राप्ताः तेषां विशेषज्ञ परीक्षा (पीयर-रिव्यू) प्रक्रिया विधीयते। देशस्य-विदेशस्य च विभिन्नभागेषु वैदुष्यमण्डिताः विद्वांसः शोधालेखानां परीक्षणाय पत्रिकापरिवारैः अनुरुद्धाः । विशिष्टपण्डिता तानुररीकृत्य जाह्नवीपरिवारानन्वगृह्णन्। पुरातनकालादेवेयं प्रक्रिया वर्तत एव। प्रस्तुतपत्रिका कियदंशतः समीचीनेतिवक्तुमसमर्थोऽहम्। एतद्विषये कविकुलगुरुकालिदासस्यैतद्वचनमेव प्रमाणम्- आ परितोषाद्विषां न साधु मन्ये प्रयोगविज्ञानम्। यथैव आशुतोषस्य नटराजराजस्य जटातः प्रवहन्ती जाह्नवी त्रैलोक्यं पुनाति मज्जतां निर्मलं प्रसादयति मुक्तिपथं तथैवेयं मदीयेयं जाह्नवी पत्रिका चतुरस्रवैदुष्यमण्डितानां तत्र भवतां श्रीमतां हृदये सौरभं प्रसादं निधत्तामिति साञ्जलिं वयं कामयामहे। अन्ते सानुनयं निवेदनं च मदीयबुद्धिदोषेण येऽशुद्धयस्त्रुटयस्तान् स्वयं संशोध्य व्यवहरन्तु सूचयन्तु। श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा। निषेव्यपदपङ्कजा विवुधवृन्दमान्याऽमला समस्तजगतीतले प्रवहतादियं जाह्नवी झोपाख्यः सदानन्दः

    श्रुतिध्वनिमनोहरा मधुरसा शुभापावनी
    स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा
    निषेव्य पदपङ्कजा विबुधवृन्दमान्यामला
    समस्तजगतीतले प्रवहृतदियं जाह्नवी।।

    विदुषामनुचरः

    झोपाख्यः सदानन्दः
    लगमास्थ जे.एन.बी आदर्शसंस्कृतमहाविद्यालयस्य


    Read : प्रकाशकीयम् .

    प्रबन्धसम्पादकः

    Dr. Bipin Kumar Jha
    ,
    Teaching Faculty, Nalanda University
    An Institution of National Importance,
    Established by an Act of Indian Parliament &
    Supported by East Asia Summit Participating Countries, Rajgir, Nalanda, Bihar.

    प्रकाशकीयम्



    या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां हृदयेषु बुद्धि:। श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नता: स्म परिपालय देवि विश्वम्॥ साम्प्रतं कोविडसङ्क्रमणनिवारणमिनित्तं भारतवर्षद्वाराकृत-कार्यसन्दर्भे विश्वस्मिन् विश्वे सर्वत्र भारतस्य अभिनन्दनं दरीदृश्यते। यद्यपि सङ्क्रमणमिदं पूर्णतया न व्यपगतं तथापि भारते जनाः एतन्निवारणसन्दर्भे जागरुकाः सञ्जाताः। प्रसङ्गेऽमिन् चिकित्सकाः नितरां श्लाघार्हाः। यथा प्राचीनकाले भारते ऋषयः नानाविघ्नमध्येपि राष्ट्रसमुन्नत्यर्थं धर्माचरणं विधाय मार्गं प्रादर्शयत्तद्वदेव भारतवर्षीयास्तु एतादृग्विषमस्थितावपि स्वकर्त्तव्यपथि भूत्वा देशसमुन्नतये विविध मार्गान् निर्माय स्वीयं प्रातिभख्यापनं कुर्वन्ति। साम्प्रतिके युगेऽपि भारते नैकाः युवानः विविधक्षेत्रेषु स्वकीयं वैदुष्यं ख्यापयन् विश्वस्मिन् शीर्षस्थपदममलङ्कुर्वन्ति इति महत् प्रमोदास्पदम् । भारतस्य कीर्तिजीविनः नैके वीरसेनानयः प्राणार्पणद्वारा भारतमातुः रक्षणं कृतवन्तः। कर्णभारे आचार्यभासः कथयति- हुतं च दत्तं च तथैव तिष्ठति । सभ्याः युवानः भारतवर्षं विहाय अन्यराष्ट्रं प्रति कथं पलायनं कुर्वन्तीति महान् क्लेशः। भारविः सत्यमेव निगदति यत् राजा राष्ट्रसमुनत्यर्थं नितरा गुणग्रहणपूर्वकं सम्मानं दद्यात्- गुणानुरोधेन बिना न सत्क्रिया। चाणक्यनीतावप्युक्तमस्ति- यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवा:। न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत्।। इत्थं रीत्या यदि केचिदपि पलायनं कुर्वन्ति तत्र विस्मयस्य का वार्ता? अत्र चिन्तनीयो विषयः । राष्ट्रस्य नीतिनिर्धारकाः एव निराकर्त्तुं शक्नुवन्ति यत् राष्ट्रे योग्यानां चयनं तत्तद्-स्थलेषु भवन्तु अन्यथा पलायनं कुत्रचित् राष्ट्राहिताय एवेति मे मतिः। यथा भवन्तः जानन्ति एव जाह्नवी-संस्कृत-ई-शोधपत्रिकाद्वारा विविधनूतनप्रयोगम्प्रयुज्य राष्ट्रमंगलाय विश्वशान्तिनिमित्तञ्चाभिनव प्रयोगानामनुष्ठानं विधीयते। तेषु कार्यक्रमेषु अन्यतमः कार्यक्रमः विश्वस्मिन् विश्वे प्रथमतः आयोजितः आसीत् वेबिनारकार्यक्रमः। एवमेव संस्कृतान्तर्वीक्षायाः आयोजनं जातम्। यत्र संस्कृतानुरागिणां मनसि संस्कृतसमुत्कर्षाय किमस्ति, किं तेन विहितमित्यादीनां तत्र अन्तर्वीक्षा द्वारा राष्ट्रपुरतः स्थापनमेव लक्ष्यमस्ति। महदिदं प्रमोदस्थानं यत् जाह्नवी-संस्कृत-ई-शोधपत्रिकाद्वारा छात्राणां पिपठिषूणामुपयोगाय पञ्चचत्वारिंश-षट्चत्वारिशसंयुक्ताङ्कस्य लोकार्पणमत्र विधीयते। राष्ट्रस्य समुन्नत्यर्थं सारस्वतसाधनारता ये तपस्विनः सन्ति, तेषां मनोभावान् शोधपत्रमाध्यमेन अभिव्यनक्ती निजकर्त्तव्यपथि सर्वान् प्रेरयन्ती अनारतं प्रवहन्ती कलकलनिनादकुर्वन्ती हसन्ती लसन्ती इयं जाह्नवी विश्वशान्तिनिमित्तं कालकूटविषपानं विधाय विश्वरक्षकान् पार्वतीजानीन् प्रार्थयते। अस्माकं ऋषयः एतत् सर्वं मनसिनिधाय विश्वशान्तये राष्ट्रमंगलाय च उक्तवान् अस्ति-

    ओ३म् आ ब्रह्मन् ब्राह्मणों ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरऽइषव्योऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढ़ाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्॥
    - यजुर्वेद २२, मन्त्र २२

    अन्ते सम्पादन-पुनर्वीक्षणकर्मसु ये प्रत्यक्षाप्रत्यक्ष-सहायकाः तेषां हार्दं धन्यवादान् ज्ञापयामि।

    विद्वच्चरणचञ्चरीकः झोपाख्यः बिपिनकुमारः।  


    Read :1 योगदर्शने नञर्थघटितसिद्धान्तविमर्शः Sankar Mondal
    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read :2 शब्दशुद्धिप्रतिपादने भामहवामनयोः पारस्पारिकं वैमत्यम् : एकमध्ययनम् Dr. Mrityunjay Gorain

    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read :3 वेद वर्णित हृदयरोग चिकित्सा के विविध आयाम महेशः

    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read :4 व्याप्तौ तार्किकरक्षाभाषापरिच्छेदग्रन्थयोः मतसमीक्षणम् प्रणवेशकुमारः

    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 5 स्त्रीपात्रमनस्तत्त्वाभिदर्शने सिद्धहस्तः कविकालिदासः डा. दीपिकादीक्षित
    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 6 महाकवि भर्तृहरि कृत नीतिशतक की प्रासंगिकता डॉ.कुसुमलता टेलर

    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 7 Awareness of Air Pollution in Vedic Literature Dr. Bhagyashree Bhalwatkar
    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 8 महाभारत में गङ्गा महात्म्य डा.विवेक शर्मा
    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 9 महाकविकालिदासस्य विविधशास्त्रपाण्डित्यस्य आधुनिक्युपयोगिता पवनचन्द्रः

    ABSTRACT OF THE PAPER



    REFERENCES




    READ THE PAPER


    Read : 10 प्रक्रमभेदानौचित्यस्य समीक्षणम् डा.दिनेशचन्द्रपाण्डेयः
    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read : 11 The Need of Union in Indian Subcontinent: A Vedic perspective Anandhu Krishnan & Siva Panuganti .

    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read : 12 Odia Palm Leaf Medical Manuscript Collection of Ācārya Surendrasūrīswarji Jaina Tatvajñānaśālā –A Bird’s Eye View Dr. Sashibhusan Mishra .

    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read : 13 प्रत्याहारेष्वितां ग्रहणविषये ज्ञापकाः पल्लवी-मालिकः

    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read : 14 The Cult of Gāyatrī: A Study Dr. Nilachal Mishra
    ABSTRACT OF THE PAPER



    REFERENCES



    READ THE PAPER


    Read : 15 एकादेशविषये पाणिनीयकातन्त्रव्याकरणयोः तुलनात्मकमध्ययनम् उत्तम-माझिः

    ABSTRACT OF THE PAPER



    READ THE PAPER


    REFERENCES



    Read : 16 पण्डितराजजगन्नाथकृतगङ्गालहर्याः माहात्म्यनिरूपणम् दीपङ्कर-मण्डलः

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER




    Read : 17 वेङ्कामात्यप्रणीतः लक्ष्मीस्वयंवरसमवकारे रसविचारः Rabindranath Bar

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER




    Read : 18 समग्र-स्वास्थ्य के उपस्तम्भ आहार के विशेष परिप्रेक्ष्य में यौगिक ग्रन्थानुशीलन डा वेदप्रकाश आर्य

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER




    Read : 19 हठप्रदीपिका के विशेष परिप्रेक्ष्य में योगाङ्ग प्राणायाम की अवधारणा डा. रविशास्त्री

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER




    Read : 20 अङ्गवृत्तपरिभाषा Dr. G.S.V. Dattatreyamurthy

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER




    Read : 21 स्पन्दशब्दप्रियो राजानकः कुन्तकः डा. राधावल्लभशर्मा

    ABSTRACT OF THE PAPER



    REFERENCES


    READ THE PAPER






    This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha.

  • The Web The Web Page of JSEJ