ISSN 0976-8645

 

Jahnavi.jpg

 

अष्टाङ्गयोगविमर्शः

         आकांक्षा शुक्ला

अनुसन्धान एवं शिक्षण सहायक,

इन्दिरा गांधी राष्ट्रीय मुक्त विश्वविद्यालय नई दिल्ली।

 

 

 

वेदाः ज्ञानप्रकाशकाः सन्ति, यत्र सर्वेषां ज्ञानवृक्षाणां मूलानि विराजन्ते। ऐतिहासिकदृष्ट्या प्राचीनतमो ऋग्वेदः। अत्र योगस्य परिभाषा विद्यत एवम् –

‘यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन। सधीनां योगमिन्वति।

 

अनेन मन्त्रेण योगस्यानिवार्यता यज्ञकर्मणि सुतरां सिद्ध्यति। योगशब्दोऽयं द्विधा व्युत्पाद्यते- ‘युज् समाधौ’ ‘युजिर योगे’ इति द्वाभ्यां धातुभ्याम्। उभाभ्यां ध´प्रत्यये कृते योगशब्दो निष्पद्यते। तथापि प्रस्तुतो योगशब्दः ‘युज समाधौ’ इति समाध्यर्थकेन युज धातुनैव निष्पन्नो योगदर्शने व्यवहृतो न तु ‘युजिर योगे’ धातुनाऽपीति। अत एव ‘‘योगश्चिात्तवृत्तिनिरोधः’’ इति योगदर्शनसूत्रे योगशब्दः संयोगार्थक इति संशयो मा भूदिति अभिप्रेत्य भगवान् भाष्यकारः ‘‘योगः समाधिः’’ स्फुटीचकार। अतएव च समाध्यर्थको योगशब्दः सदा अनुपसृष्ट एव सर्वत्र व्यवहृतो योगदर्शनग्रन्थेषु। अत चायं योगः ‘दर्शनम्’ इत्यभिधां धारयति।

अथर्ववेद स्पष्टतया विवेचितोऽयं विषयः। यथात्र मन्त्राः –

”इमं यवमष्टा योगैः ­ड्योगेभिरयश्चर्कृषुः।”

एवञ्च –

” अष्टधा युक्तो वहति“  योगे - योगे तवस्तरम्

 वाजे-वाजे हवामहे सखाय इन्द्रमूतये। “

 

एभिः प्रमाणैर्ज्ञायते यत् पातजलयोगसूत्रस्यावधारणा मूलतः वेदादेव समागताः विद्यते। कठोपनिषदि  मनसा सह पञ्चज्ञानेन्द्रियाणां सुस्थिरो योग एव परमतावगतित्वेन मन्यते। इन्द्रियाणां स्थैर्य धारको योगः। एवंभूतो योगयुक्तः साधकः अप्रमादी भवति।

 

”यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह,

बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्।।“

 

अस्ति विष्णुपुराणे योगशब्दस्यायमर्थः आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः। तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते।।

भगवद्गीतायामेकत्र ‘सिद्ध्यसिद्ध्योः समत्वम्” तथा ‘कर्मसु कौशलम्’ इति योग उक्तः।  शङ्कराचार्येण एवमुक्तम् –

 

“योगो हि कर्मसु कौशलं स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्यो समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः तद्धि कौशलं यद् बन्धस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावाद् निवर्तन्ते।“श्रीमद्भगवद्गीतानुसारमीश्वरार्पणबुद्ध्या निष्कामभावेन स्वधर्मानुष्ठानमेव योगो निगद्यते। गीतायामुभयत्र प्रयुक्तस्य योगशब्दस्यायमाशयो यन्मनुजैः स्वशुभाशुभ कर्मणोः फलेप्वनासक्तैः स्वकर्तव्यापालनं विधेयमिति। योगदर्शनानुसारेण अष्टाङ्गयोगस्य नियमिताभ्यासो मनसो मालिन्यमपाकरोति, ततः परं ज्ञानस्यं सर्वोच्चं पदं प्रात्यते।  शिवपुराणमात्मना सह चिात्त संयोगं ज्ञानयोगं कथयति। पातञ्जलयोगलक्षणे कस्याप्युपास्य देवस्य नामनिर्देशो नास्ति। तप्र केवलं चित्रवृत्तिनिरोध एव योग उक्तः समाधिरयञ्िचात्तस्यैवैकः स्वाभाविको धर्मः।

” योगश्चित्तवृत्तिनिरोधः“। अर्थात् अन्तः करणस्य वृत्तयः संस्काराः भावाः विचाराः, कामनाश्च यथा शमितास्युः। स एव योगः। योगमार्गे यात्रा तदैव साफल्यं भवति यदा तस्याशष्टौ अङ्गानि। क्रम उत्तरोत्तरं विकासार्थमेतानि अष्टौ अङ्गानि भवन्ति-”यमनियामासन प्राणायामा प्रत्याहार धारणाध्यान समाधयः“। समाधि जिगांसूनां प्रति योगांगानि कर्त्तव्यामीमांसां बोधयन्ति। योगस्येष्वष्टाङ्गेषु प्रत्येकं परस्परमपरेण सम्बद्धम्। प्रथमाङ्गे प्रतिष्ठितः सन्नेव साधको द्वितीयाङ्गसोपानगमनाधिकारी भवतिमर्हति। एवमेव क्रमशः तेन परमोद्देश्ये समाधौ गन्तुं शक्यते।

 यमरू. योेगसूत्रे यमस्य पञ्चभेदानामेव निर्देशो विद्यते। योगसूत्रे यम-साधनाया अहिंसात्यास्तेयब्रह्मचर्यापरिग्रहा चेति पञ्च भेदा निर्दिष्टाः सन्ति।

1.         अहिंसा - मनसा, वाचा, कर्मणा च कस्यापि जीवस्य केनापि प्रकारेण अक्लेशोत्पादनमेवाहिंसा भवति। अत्रेर्ष्याद्वेषद्रोहादिभ्यो निवृत्तिरावश्यकी भवति।

2.         सत्यम् - मिथ्यावादेन विरतिः एव सत्यम्। सर्वथा साधकेन यर्थाथभाषणमाचरणञ्च तथैव कर्त्तव्यं भवत्यत्र।

3.         अस्तेयः - परार्थेषु कदापि स्वाधिकार वृत्तिर्माभूदित्येवास्तेयः। अचौर्यव्यवहारः परमावश्यकोऽत्र मन्यते।

4.         ब्रह्मचर्यम् - मनसापि कामवासना यथापगता स्यात्तादेव ब्रह्मचर्यमुच्यते। इन्द्रियाणां संयमनं, कामादिरागेण विरतित्राधारभूता भवति।

5.         अपरिग्रहः - वस्तूनां संग्र्रहणे विरतिरेवापरिग्रहः। न्यूनातिन्यूनजीवनयापनम्, भौतिकपदार्थानां प्राप्तये मनसो निग्रहणं च  परमावश्यको विद्यत अत्र।

 

नियमाः -

नियमन्ति प्रेरयन्तीति नियमाः। येनाचरणेन शुभकर्मणि प्रेरणा संज्ञायते स एव नियमः। नियमस्य पञ्चभेदानां परिगणनं कृतं पतञ्जलिना - ”शौचसन्तोषतपः स्वाध्येश्वरप्राणिधानानि नियमाः।“ इत्येवं पञ्चप्रकाराः विद्यन्ते नियमस्य।    बाह्याभ्यन्तपाविरयभावः शौचः। प्राप्तवस्तूना परितोष एव सन्तोषः।  शीतोष्णादीनां सहनम्, प्रकृतिविपर्यासेऽपि समानुभूतिः, तपोनाम्नोच्यते। स्वाध्यायो नाम स्वात्मनश्चिन्तनम्। मनोवाक्कायैरीश्वरार्पणमेेवेश्वरप्राणिधानम्। सर्वथा भगवतावाचिन्तनम्, सर्वं कर्म तन्निष्ठमेवेति ईश्वरप्राणिधानं स्वीकृतम्।

 

आसनम् -

”स्थिरसुखमासनम्“ - इति पतञ्जलिः। मनोनिग्रहपूर्वकं प्राणेन्द्रियाणां सम्यक् सञ्चालनं नियमनं च यथा सुखेनोपविश्व कर्तुं शक्यते तदेवासनम्। ‘आस्यतेऽनेनति आसनामि’ति।

 

प्राणायामः -

            श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। यत्र च यथेच्छं श्वासप्रश्यासयोर्नियमनं कर्तुं पार्यते, येन विधिना श्वासोपरि नियन्त्रणं समुत्पद्यते, तस्य नाम प्राणायामः। अत्र च पूरककुम्भकरेचकेति नाम्ना प्राणायामस्य क्रमो भवति।

 

प्रत्याहारः -

            इन्द्रियाणां सर्वविषयेभ्यः परावर्तनमेव प्रत्याहारः। बाहयविषयान् परित्यज्यान्तर्मुखी वृत्तिरेव प्रत्याहारे कर्त्तव्यं भवति।

 

धारणा -

            अष्टाङ्गयोगे प्रत्याहारानन्तरं धारणायाः स्थानं वर्त्तते। धारणक्षमतैव धारणा कथ्यते। योगसूत्रे ‘देशबन्धचिात्तस्य धारणा’ इत्युक्तम्।  शिवपुराणमपि चिात्तस्य स्थानबन्धं धारणा मन्यते।

तथाहि -

            धारणाः नाम चिात्तस्य स्थानबन्धः समासतः।1

 

शरीरस्याङ्गविशेषे विशिष्टे लक्ष्ये वा चिात्तस्य सन्निवेशो धारणा भवति। यमनियमादिना मनोनिग्रहस्याभ्यासादनन्तरं यदा कोऽपि साधको नाभिचक्रे हृतकमले ब्रह्मरन्धे वा स्वाभीष्टे प्रदेशे स्वचित्रं स्थिरं करोति, यथेष्टकाल पर्यन्तम्, सैव धारणा।

 

ध्यानम् -

            चिन्तार्थकाद् ध्यैः धातोः ‘ल्युट्’ प्रत्यये सति ‘‘ध्यान’’ शब्दो निष्पद्यते। योगसूत्रे ध्येयवस्तुनि चिात्तस्यैकाग्य्रमेव ध्यानमुक्तम् -

”तत्र प्रत्यैकतानता ध्यानम्। “

विष्णुपुराणानुसारमपि यत्र परमेश्वरस्य रुपमेव प्रतीयते ईदृशी विषयान्तरस्पृहारहिता सतत चिन्तनधारैव ध्यानमिति।

”अव्याक्षिप्तमनसा ध्यानं नाम तदुच्यते।

‘ध्यानं हि निर्विषयं मनः’ इत्युक्त्वा धारणानन्तरं यत्र सर्वेऽपि विषया निर्गता भवन्ति तद् ध्यानम्।

 

समाधिः -

            ‘तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः।’ सम्यग् अधीयते एकाग्रीक्रियेते विक्षेपान् परित्यज्य मनो यत्र स समाधिः। यदा ध्यानं ध्येयाकाररूपं स्वरूपशून्यमिव वा भवति तदा समाधिरित्युच्यते। समाध्यवस्थायां ध्यानध्यातृध्येयानाम् एकरूपता संपद्यते। योगांगानि समाधिं अधिजिज्ञासूनां कर्त्तव्यमीमाघसा बोधयति।

   योगस्य अपरंनाम ‘‘योग समाधिः’’ विद्यते। द्विविधो योगः।

          संप्रज्ञात असंप्रज्ञातश्च। संप्रज्ञातः समाधिः सबीजः समाधिरित्युच्यते, सर्ववृात्तीनां निरोध असम्प्रज्ञातः समाधिः। अयमेव निर्बीजः समाधिप्युच्यते। अत्र बीजस्यावलम्बनस्य वा असद्भावात् असंप्रज्ञातः समाधिर्द्विधा भवप्रत्ययरू। उपायप्रत्ययश्चेति। ज्ञानोन्मेषाभावेन विदेहानां प्रकृतिलीनानां च भव प्रत्ययः समाधि भवप्रत्ययो विदेहप्रकृतिलयानाम्। श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-समवेतानाम् उपायप्रत्ययः समाधिः।

ईश्वरप्रणिधानेन योगाभ्यास द्वारा परमात्मा साक्षात्करणं परमधर्मः। यदुच्यते ”अयन्तु परमोधर्मों यद्योगेनात्मदर्शनम्।“

            एवं योगे क्लेशकर्मविपाकाशयैरपरामृष्टः पुरूषविशेष ईश्वरोऽपि मन्यते। अस्मिन् सर्वकर्मफलार्पणेन समाधि-सिद्धिर्जायिते।“ योग ईश्वरतत्त्वमेव सांख्याद् विशिष्टं मन्यतेऽन्यत्समम्। महर्षि पतञ्जलिप्रणीतस्य योगसूत्रस्य भगवताव्यासेन तदुपरि भाष्यं कृत्वा लोकाय महदुपकारः कृतः। अष्टांगयोग साधनेन साधकः स्वचिात्तवृत्तिनिरोधाद् ऐकान्तिकम् आत्यन्तिकं च सुखं विन्दति, मोक्षम् चाधिगच्छति।

अतएव पतञ्जलेस्त्वज्ञातां प्रशंसयन्नाह कविः -

ऊँ योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्येकेन ।

योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।