ISSN 0976-8645
॥संस्कृतवाङ्मयपरिचयपूर्वकं
संरक्षणोपायचिन्तनम्॥
बिपिन कुमार झा
राष्ट्रियसंस्कृतसंस्थानस्यपुरी
(श्री सदाशिव) परिसरस्थः
साहित्यविभागाध्यापकः
(अनु.) झा बिपिनकुमारः।
E-Mail- bipinjhajnu@iitb.ac.in
ध्येयं
वदन्ति शिवमेवहि
केचिदन्ये|
लक्ष्मीं
गणेशमपरे तु दिवाकरं
वै।
रूपैस्तु
तैरपि यतस्त्वमेव
तस्मात्
त्वमेव शरणं मम
दीनबन्धो।
इत्यमुया
प्रार्थनया नीलाद्रिवसन्तन्त्रैलोक्यपरिपालकन्दीनबन्धुञ्जगन्नाथन्तत्त्ववेतॄन्नाचार्यान्
प्रणम्य
शोधपत्रमारभे।
कुञ्चिकाशब्दाः-
संस्कृतवाङ्मयम्,
नाटककाराः, कवयः,
सङ्गणकम्, प्रमुखसाहित्यग्रन्थाः।
१.
शोधसारः परिचयश्च-
संस्कृतजिज्ञासवो
बहश्छात्रास्संस्कृतवाङ्मये
विविधार्थक[1]म्प्रयुक्तम्प्रतिपदन्दृष्ट्वा
भ्रमितो भवन्ति।
यतो ह्यत्र समानरूपाणि
पदानि ’पोलीसेमी’तिरूपेषु
विद्यन्ते। एतादृग्विविधेषु
पदेषूपस्थितेषु
सत्सु व्यख्यानकाले
कम्पदमङगीकरणीयमिति
नितराञ्जिज्ञासा
भवत्येव सर्वेषाञ्ज्ञानपिपासूनामपि
च व्याख्याकर्र्तॄणाम्। यदि ग्रन्थरचयितुर्विचारसरणी, उपदेशपद्धतिः, लेखनशैली
च सम्यक् परीक्ष्येत, तर्हि पारम्परिकरीत्याव्याख्यार्थावगमनाभ्यान्न
हि काचिद्विप्रतिपत्तिर्जायते
तत्र। समस्या तु
तत्र भवति यत्र
आचार्येण विरचितो हृत्स्थाभिप्रायस्स्पष्टतया
न ज्ञायते। पुनश्च
यदि प्रविधिना
(तककनीकदृशा) विचारस्स्यात्तु
सर्वथा चिन्तनीयविषयत्वेनेयं
समस्या समापतत्यत्र।
’तकनीकदृशा’ कथनस्य
साकल्येनाभिप्रायोऽत्र
संस्कृतसाहित्यसंरक्षणरार्थं
ये केचिदुद्यमास्संगणकमाश्रित्य
विद्यन्ते तेषां
समेषान्दृष्ट्या
विचार इति। सर्वेषां
साकल्येनात्रोपस्थापनम्भविष्यति
यत् केन प्रकारेणोक्तसमस्यापरिहारपूर्वकं
संस्कृतवाङ्मयसंरक्षणं
स्यादिति।
२.
विषयवस्तुविवरणम्-
संस्कृतवाङ्मयम् :- संस्कृतवाङ्मपदेन
संस्कृते विद्यमानो
ये केचितद्ग्रन्थास्सन्ति
तेषां सर्वेषामङ्गीकरणम्भवति
किन्तु संस्कृतसाहित्यमिति
पदेन पारम्परिकदृष्ट्या
ये काव्यग्रन्थास्सन्ति
तेषामेव परिगणनम्भवति।
संस्कृतसाहित्यचर्चा
संस्कृतसाहित्यशास्त्रस्यैतिहास[2]
इति ग्रन्थाश्रिताऽस्त्यत्र।
संस्कृतसाहित्यसंरक्षणङ्कथं
स्यादिति विषये
नैके उपायाः सन्ति
किन्तु साकल्येन
द्विविधोपाय एव
सुष्ठुतया दरीदृश्यते।
प्रथमस्तावत्
पारम्परिकरूपे
पूर्वपक्षसिद्धान्तपक्षमनुसृत्य,
संस्मृत्याङ्गीकरणमुत
ग्रन्थानाम्मुद्रणम्।
तत्र द्वितीयोपायोऽस्ति
’डिजिटलाइजेशन’।
’डिजिटलाइजेशन’ नाम संगणकमाश्रित्य
रक्षणम्। अस्मिन्
पत्रके द्वितीयोपायस्य
काऽऽवश्यकता तस्यावकाश
कीदृश इत्येतेषाम्प्रभृतीनाम्बिन्दूनाञ्चर्चा
क्रियते।
२.१ आवश्यकता-
अस्ति
तावतज्जिज्ञासा
यत् काऽऽवश्यकता
द्वितीयोपायस्य?
तर्ह्युच्यते-
अस्त्यावश्यकता
यतो हि कालक्रमेण सर्वमस्तं
याति। किन्तु यदि
कुत्रचित् किमपि
संगणकानुस्यूतं
स्यात्तु सुकरन्तस्याऽऽरक्षणम्।
मद्दृष्ट्या १.
प्रायो
भारतीयो
विद्वांसो
यावज्जीवनम्परिश्रम्य
ग्रन्थरत्नान्निर्मान्ति।
परन्तु कालस्य
दुश्चक्रप्रभावेण
तेषां वंशजाः
असंस्कृतज्ञो
भवन्ति अथवा संस्कृतविद्येतरजीविनो
भवन्ति। येन
तेषाम्पूर्वजप्रणीतग्रन्थानां
संरक्षणम्परिप्रकाशनन्न
भवतीति खेदविषयः।
येन
संरक्षणम्भवेत्तदुपायश्चिन्तनीयः।
उपायत्वेनेत्थं
यत् यदि भवति
तर्हि स्वयं
तान्
ग्रन्थान्
प्रकाशयन्तु
अथवा यत्र
तेषां
सरक्षणम्भवेत्तत्र
ददतु। अन्यथा
पाण्डुलिपिः
हस्तलिपिश्च
नष्टा
भविष्यति; सा
अन्या कथा,
अपरा च ये
विद्वांसः
आजीवनन्तपश्चर्यया
ग्रन्थाँश्चक्रुः;
तेषाम्प्रतिभा,
श्रमः,
कालयापनञ्च
व्यर्थम्भविष्यतीति
महत्पापं
वयम्भारतीयास्सोढुन्न
शक्नुमः, इति
निवेदये। ।अपि
च तेषां संरक्षणे
क्लेशास्सन्ति।
यद्येतेषाङ्ग्रन्थानां
’डिजिटलाईजेशन’
स्यात्तु तस्य
बृहदाकारपुस्तकालयस्थसर्वेषाङ्ग्रन्थानामभिलेखादीनाम्परिरक्षणम्परिष्करणञ्च
सहजतया भवितुमर्हति।
तत्रैव द्वितीयाऽऽवश्यकता
तस्यानुवादकर्यरूपा।
ग्रन्थानामनुवादकार्यन्दुष्करं
सर्वथा, मुदा यदि
यान्त्रिकानुवादमेति
साफल्यन्तु, सहजरूपेण
सहस्रग्रन्थानामनुवादकार्यन्नैकभाभाषासु
सुलभतयैव भवितुमर्हति।
तृतीयाऽऽवश्यकता
मूलग्रन्थेषु
गूढतत्त्वानि
यानि तेषामुपस्थापनमाधुनिकरीत्या[3]।
२.२ विद्यमानकार्याणि-
जगतीह कृतभूरिपरिश्रमो
नैके संस्कृतजिज्ञासवस्सन्ति,
ये संस्कृतसंरक्षणार्थम्परिष्करणार्थञ्चाहर्निशंम्प्रयासरतास्सन्ति।
प्रयासेनानेन
नैके साहित्यग्रन्थाः,
कोशग्रन्थाः प्रभृतयः
पी.डी.एफ़, वर्ड, जे.पी.जी
प्रभृतिरूपेष्वन्तर्जालेषूपलब्धास्सन्ति।
एष्वन्तर्जालेषु
संस्कृतडक्युमेण्ट, संस्कृत
ई-टेक्स्ट्स, संस्कृतलाइब्रेरी
प्रभृतयो महत्वपूर्णस्रोतांसि
सन्ति। सहैव पत्रपत्रिकानिमित्तन्नैकान्यन्तर्जालानि
सन्ति। येषां विवरणं
श्रीमता बलदेवानन्दसागरमहोदयेन
स्वकीयग्रन्थे
दत्तमस्ति। पुनश्च
यदि चर्चा स्याद्द्वितीयतृतीयसमस्यासन्दर्भिता
तु तत्र भारते[4] विदेशेषु[5] च बहवो
जनास्संस्थाश्च
कार्यरतास्सन्ति।
३. कथं
’पोलीसेमी’
तथा’होमोनिम’ इति
पदद्वयं व्याख्यानकाले
सङ्गणकान्वितिकाले
भ्रान्तिञ्जनयति-
क्रमसंख्या |
’Ambiguious’ शब्दाः |
Meaning |
1 |
aja[6]
- |
Brahmā, bakarā, ajanmā, daśaratha ke
pitā, śiva viṣṇu, kāmadhenu |
2 |
adhara |
ākāśa , oṣṭha
, ādhārahīna |
3 |
jāla |
māyā , phandā ,
samūha, jādū, jharokhā |
4 |
tārā |
priya strī[7], āṁkha
kī putalī , bāli kī patnī , nakṣatra |
5 |
droṇa |
eka , parvata , donā , kauā
, droṇācārya |
6 |
hari [8] |
haṁsa , sarpa , viṣṇu
, siṁha , bānara , aśva , gaja , śiva , harā , raṁga
, brahmā |
7 |
haladhara[9]
|
ruṣabha , kauṣaka ,
balarāma , halavāhā |
पोलीसेमीत्यस्योदाहरणम्
यदि इनपुटरूपे
’हरिः गच्छति’
स्यात्तु कथन्निर्णयो
भवेद्यत् ’हरिः’
इति पदस्य कोर्थ
इति? यतो ह्यत्र
’हरि’ इति पदस्याभिप्रायास्सन्ति-
‘हंसः, सर्पः, विष्णुः, सिंहः, कपिः, अश्वः, गजः, शिवः, हरितः, ब्रह्मा
च।
Sr. no |
Homonym |
No of meanings |
1 |
अलि |
9 |
2 |
आली |
3 |
3 |
अली |
3 |
होमोनिमित्यस्योदाहरणम्
प्रायशो येषामुच्चारणसाम्यम्भवति,
ते होमोनिम्
इतिरूपेऽभिधीयन्ते।
एते शब्दाः अपि
सन्देहञ्जनयति
संगणकाय। अत एभ्यश्शब्दार्थनियामकोपकरणावश्यकताऽऽनुभूयत
एव।
आण्टोलोजी-
आण्टोलोजी
इति पदन्तु प्रथितम्मेवानेन
कस्यचिच्छब्दस्यापि
सहजतया तद्गुणानुरूपविभागङ्कृत्वा
स्थाननिर्धारणङ्कर्तुं
शक्यते।
यथा-
’इष्ट’ इति एवम्प्रकारेणोपस्थापयितुं
शक्यते-
Mythological Character (पौराणिक
जीव)
>>Fauna (जन्तु)
>>Animate (सजीव)
>> Noun(संज्ञा)
इष्टस्यैव
विभागमनेकविधरूपेण
कर्तुं शक्यते।[10]
4. अपेक्षितोद्यमाः-
I.
दुर्लभग्रन्थानां
डिजिटलाइजेशन
इति कृत्वा जनसामान्येभ्यस्सहजसुलभोपायस्स्यात्।
II.
डिजिटललाइब्रेरी,
संस्कृतडाक्युमेण्टसदृशान्तार्जालीयसंसाधनसम्वर्धनम्भवेत्।
III.
आनलाइन पत्रपत्रिकाभ्य
उद्यमस्स्यात्।
IV.
अन्तर्जालस्योपयोगितासन्दर्भे
संस्कृतानुयायिभ्यो
जागरुकतोपायस्स्यात्।
V.
केन्द्रीकृतपुस्तकालयावश्यकताऽस्ति।
यत्र सर्वेषां
पुस्तकालयानां
यत्किमपि संस्कृतसन्दर्भे
विद्यते तत्सर्वं
सूचनारूपेण स्यात्।
VI.
जगतीह संस्कृतसन्दर्भे
यानि कानिचिदपि
आनलाइन विद्यन्ते।
तेषामेकीकृतरूपेण
सूचना कुत्रचिदेकस्मिन्
पुटे एव स्यादेतादृक्
पोर्टल इत्यस्याऽऽवश्यकतास्ति।
VII.
जगति संस्कृतसन्दर्भे
यानि कानिचिदपि
आफलाइन विद्यन्ते।
तेषामेकीकृतरूपेण
सूचना कुत्रचिदेकस्मिन्
पुटे एव स्यादेतादृक्
पोर्टल इत्यस्याऽऽवश्यकतास्ति।
VIII.
संस्कृतस्य
डिजिटलाइजेशन
सन्दर्भितानि
यानि कानिचिदपि
कार्याणि संजातानि
संजायमानानि वा
सन्ति तेषां विवरणस्यासन्द्दिग्धरूपेण
कुत्रचित् स्थापनं
स्यात्।
5. प्रस्तुत
प्रयासः-
सारस्वतनिकेतनन्नामाख्यैस्सुरसरस्वतीसमुपासकैरस्माभिरुक्त
षष्ठमोपायायोद्यम
क्रियते। मार्गेऽस्मिन्नेव
बहुकार्याणि सञ्जातानि।
तत्रैव आनलाइन
तत्समशब्दकोशाय
प्रयासोऽभवत्।
वैशिष्ट्यमस्त्येतस्य-
|
तत्समशब्दकोशग्रन्थन्यूनता |
आनलाइन
तत्समशब्दकोशस्य वैशिष्ट्यमस्ति |
1. 2. 3. 4. 5 |
त्रयोदशभाषासु
एव । मुद्रितग्रन्थरूपे
। यान्त्रिकसर्चरहितः
। Source language शब्दविवरणदानेऽसमर्थः
। Target language शब्दविवरणदानेऽसमर्थः
। |
अष्टादशभाषासु
। अन्तर्जालमाध्यमेन
। यान्त्रिकसर्चसहित
। Source language शब्दविवरणदाने
समर्थः। Target language शब्दविवरणदाने समर्थः। |
|
|
|
6. एतस्य
इण्टर्फेस इत्यस्य
निदर्शनम्-
प्रथमं सोपानम्-
द्वितीयं
सोपानम्-
तृतीयं सोपानम्-
चतुर्थं
सोपानम्-
7. उपसंहारः-
कालक्रमेण
परिवर्तमाने प्रपञ्चे
यद्याधुनिकतकनीकादीनाम्प्रयोगङ्कृत्वा
यदि संस्कृतसंरक्षणं
स्यात्तु संस्कृतसंरक्षणसहैव
संस्कृतजिज्ञासुजनेभ्य
उत्साहससंचारम्भविष्यति।
सहैव गीर्वाण्याः
प्रवाहो जाह्नवीव
सततमविरलभावेन
भविष्यतीति नात्र
सन्देह कश्चन्।
सन्दर्भग्रन्थसूची:-
Books
·
Apte, Vaman Shivram, 1995,
Sanskrit-English dictionary, Star Publication, New Delhi
·
Bailey, D.Bailey, K.,
Etymological Dictionary. , Edward Arn
·
Bṛhat hindī
śabdakośa, 1989, jñānamaṇḍala, vārāṇasī
·
Baker, Mark C. 1988. Incorporation: A Theory of
Grammatical Function Changing.Chicago: University of Chicago Press.
·
Balachandran, Lakshmi Bai. 1970. A Case Grammar of Hindi with
Special Reference to Causative Sentences. Doctoral Dissertation, Cornell
University, Ithaca.
·
Cuyckens Hubert, Britta Zawada, 1997, Cognitive Linguistics
Conference, Amsterdam
·
Deva, Dr. , 1997, prāmāṇika
hindī vyākaraṇa, hindī pracāraka pablikeśansa
prā0 li0, vārāṇasī
·
Dr., 2007, mānaka hindī
kośa: hindī bhāṣā kā adyatana,
arthapradhāna aura sarvāṃgapūrṇa
śabdakośa, Allahabad : Hindi Sahitya Sammelan, Prayag
·
Dvivedī, Dr. rāmarājapāla, 2008, hindī
vyākaraṇa pāribhāṣika śabdakośa,
parameśvarī prakāśana, dillī
·
Dāsa, nārāyaṇa,
2006, hindī meṃ vibhakti prayoga, vāṇī
prakāśana, naī dillī
·
Jāyasavāla, Dr. mātābadala, 1979, mānaka
hindī kā aitihāsika vyākaraṇa, mahāmati
prakāśana, ilāhābāda
·
Kulkarni, K. P. 1993, Marathi
vyutpatti kosh = Marathi etymological dictionary, Shubra-Saraswat Prakashan,
Pune
·
Kachru, Y. 1980. Aspects of Hindi-Grammar. New Delhi : Manohar
Publications.
·
·
Kiśora, girirāja
(sampā.), 1988, bhāṣā aura praudyogikī,
racanātmaka lekhana evaṃ prakāśana kendra, IIT kānapura
·
Kachru, Y. 1981. Transitivity and Volitionality in Hindi-Urdu. 11.2:181-193.
·
Maharotrā, rameśa caṃdra,
2000, mānaka hindī ke śuddha prayoga-1, rādhākṛṣṇa
prakāśana prāiveṭa limiṭeḍa, naī
dillī
·
Maharotrā, rameśa caṃdra,
2000, mānaka hindī ke śuddha prayoga-2, rādhākṛṣṇa
prakāśana prāiveṭa limiṭeḍa, naī
dillī
·
Maharotrā, rameśa caṃdra,
2000, mānaka hindī ke śuddha prayoga-3, rādhākṛṣṇa
prakāśana prāiveṭa limiṭeḍa, naī
dillī
·
Maharotrā, rameśa caṃdra,
2000, mānaka hindī ke śuddha prayoga-4, rādhākṛṣṇa
prakāśana prāiveṭa limiṭeḍa, naī
dillī
·
Mīmāṃsaka, yudhiṣṭhira,
1992, pātaṃjala mahābhāṣyam, rāmalāla
kapūra ṭrasṭa, hariyāṇā
·
Ohala, Manjari. 1983. Aspects of Hindi Phonology.
Delhi: Motilal Banarasi Dass.
·
Steven, L. Small, 1988, Lexical
Abiguity Resolution, Morgan Kaufmann Publishers, Inc, California
·
Shāstrī, Dr. vāgīśa, 1990, saṃskṛta
bhāṣā sīkhane kī sarala aura vaijñānika
paddhati, vagyoga cetanā prakāśana, vārāṇasī
·
Tripaṭhi, Dr. Ramadeva,
1977, bhāṣā vijñāna kī bhāratīya
paramparā aura pāṇini, bihāra rāṣṭrabhāṣā
pariṣada
·
Taruṇa, ācārya
Dr. harivaṃśa, 2004,
mānaka hindī muhāvarā- lokokti kośa,
prakāśana saṃsthāna, naī dillī
·
Upādhyāya, Baladeva,
1994, saṃskṛta sāhitya kā itihāsa,
śāradā niketana, vārāṇasī
·
Varmā, Dr. dhīrendra, hindī bhāṣā
kā itihāsa, hindustānī akeḍamī
·
Vājapeyi, kiśorī
dāsa, 1998, hindī śabdānuśāsana, nāgarī
pracāraṇī sabhā, vārāṇasī
·
Viliyamsa, moniyara, 1990, saṃskṛta
iṃgaliśa ḍikśanarī, motīlāla
banārasī dāsa
·
Varmā, Dr. vajaraṃga, 1988, maithila kavi
umāpati ke prāmāṇika pada, sammelana patrikā
·
Varmā, Dr. devendra, 2003, kośa vijñāna,
viśvabhāratī prakāśana nāgapura
·
Verma, Ramchandra (Ed.), 2007,
marāṭhī-saṃskṛta śabdakośa, saṃskṛtabhāratī,
puṇe
7.2 अन्तर्जाल-सूची
·
Kalakattawi, Dr. Faiza Abdulatif, Lexical Relations with Reference to Polysemy in Translation, http://www.kau.edu.sa/Files/0009926/Researches/30724_fitnah%20research.pdf visited on 11
Aug, 2011
·
http://www.cse.iitb.ac.in/~pb/papers/Debasri-Complex-Predicates-26mar07.pdf, visited on 2nd June,
2011
·
http://tiger.sprachwiss.uni-konstanz.de/~jsal/ojs/dissertations/phd-richa.pdf,
visited on 2nd June, 2011
·
http://www.education.nic.in/AR/AR0607-en.pdf,
visited on 2nd June, 2011
·
http://ccat.sas.upenn.edu/plc/hindi/,
visited on 2nd June, 2011
·
http://www.cs.colostate.edu/~malaiya/hindiint.html,
visited on 2nd June, 2011
·
http://www.lumosity.com/landing_pages/44,
visited on 2nd June, 2011
·
http://sanskritdocuments.org/hindi/,
visited on 2nd June, 2011
·
http://www.videha.co.in/new_page_13.htm, visited on 7th July
2011
·
http://hindinideshalaya.nic.in/hindi/schemeofpublication/dictionariesschemes/otherkosh.html,
visited on 2nd June, 2011
·
http://sanskrit.uohyd.ernet.in/~anusaaraka/sanskrit/samsaadhanii/amarakosha/home.html,
visited on 17th Jan 2011
·
http://sanskrit.jnu.ac.in/amara/viewdata.jsp,
visited on 17th May 2011
·
http://sanskritlibrary.org/,
visited on 17th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/monier/indexcaller.php,
visited on 17th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/mwquery/index.html,
visited on 13th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/scans/PWScan/disp2/index.php,
visited on 13th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/aequery/index.html,
visited on 13th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/scans/WILScan/web/index.php,
visited on 13th May 2011
·
http://www.sanskrit-lexicon.uni-koeln.de/scans/STCScan/web/index.php,
visited on 13th May 2011
[1] Polysemy words
[2] By Dr. Umashankar Sharma
Rishi, Chaukhambha Bharati Academi, First edition-1999
[3] Machine translation, Grammatical analysis, Speech processing, Text processing, Content and thematic analysis प्रभृतिद्वारा।
[4] Indian Institute of
Technology (IIT), Chennai, Indian Institute of Technology (IIT), Delhi, Indian
Institute of Technology (IIT), Kanpur, Indian Institute of Technology (IIT),
Kharagpur, Indian Institute of Technology (IIT), Mumbai, Indian Institute of
Science (IISc), Bangalore, Indian Institute of Management (IIM), Kolkata,
Indian Statistical Institute (ISI), Kolkata, Tata Institute of Fundamental
Research (TIFR), Mumbai, National Centre for Software Technology (NCST),
Mumbai, International Institute of Information Technology (IIIT), Hyderabad,
Central Electronics Engineering Research Institute (CEERI), Pilani, University
of Hyderabad, Tata Research Development & Design Centre (TRDDC), Pune, CSI
Special Interest Group in AI (CSI-SIGAI), Technology Development in Indian
Languages (TDIL), C-DAC, Pune, CDAC -Noida, Kolkata, Mumbai, Hyderabad, Special Centre for Sanskrit studies,
Jawaharlal Nehru University, New Delhi, Cell for Indian Sciences and Technology
in Sanskrit, H&SS, IITB.
[5] Microsoft, MindNet, IBM,
GlossOnt etc.
[6] Amarkosha, Digital, HCU web site
[7] Hindi word net IIT Bombay
[10] विशेषविवरणाय
हिन्दीवर्डनेट
इति पश्यतु।