ISSN 0976-8645
विशिष्टाद्वैतवेदान्ते
अपरनिगमान्तमहादेशिकः
श्रीमती.पद्मिनी
श्रीधरः. P.S
शोधच्छात्रा
विशिष्टाद्वैतवेदान्तविभागः
श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतिवद्यापीठम्
नवदेहली – 16
दूरभाषा-09810423484
हयग्रीवकृपापात्रमात्रेयकुलभूषणम्
।
सेवाख्यास्वामिनं
सेवे भूधन्वपरदेशिकम्
।।
विशिष्टाद्वैतवेदान्तसम्प्रदायस्याचार्यपरम्परायां
विंशतितमे शताब्दे सेवास्वामीति
नाम्ना प्रसिद्धः
नल्लूर श्रीनिवासराघवाचार्य
इति कश्चनाचार्यशिरोमणिः
सिद्धान्तप्रचारप्रसारधुरन्धरः
भुवनमिदमलङ्करोत्
। अयमाचार्यः क्रिस्त्वाब्दस्य
1923 तमेऽब्दे दुन्दुभिवत्सरे
चैत्रमासस्य (अप्रैलमासस्य
द्वितीयदिने )
चित्रानक्षत्रयुते
शुभदिने तुलाराशौ
तिरुवन्नामलैजनपदस्थनल्लूरिति
ग्रामेऽरसानिपालै
नाम्ना प्रसिद्धाग्रहारे
कवितार्किकसिंह-सर्वतन्त्रस्वतन्त्रादिबिरुदविभूषित-भगवद्घण्टावतारभूत-श्रीनिगमान्तमहादेशिक-वेङ्कटनाथस्य
मातुलत्वभावं
स्वतः सम्प्राप्ताप्पुल्लारस्यात्रेयगोत्रवंशपरम्परायां
श्रीमतिरङ्गनायकीश्रीनिवासाचार्यदम्पत्योः
ज्येष्ठकुमारत्वेन समजनि । जनकः
श्रीनिवासाचार्यश्च
श्रीशैलाधिपतेः
भगवतः श्रीनिवासस्य
दिव्यालये सलक्षणसगणान्तयजुर्वेदपारायणपरः आसीत् ।1 यथाकालं
नामकरणचौलोपनयनादिसंस्कारादिभिरयमाचार्यः
संस्कृतः । वैवाहिकसंस्कारश्च
श्रीवत्सगोत्रोद्भवसुन्दराचार्यस्वर्णवल्लीदम्पत्योः
कनकवल्लीनामन्या
पुत्र्या सह समभवत्
।
आचार्यस्यास्य
स्नातकाद्यध्ययनं
तिरुपतिस्थश्रीवेङ्कटेश्वरविश्वविद्यालयात्
सम्पन्नम् । अस्याचार्यस्य
साम्प्रदायिकविद्याप्राप्तिश्च
उत्तमूर्. टि.वीरराघवाचार्याणां,
डी.टी.ताताचार्याणां
तथा नावल्पाक्कं
नरसिम्हताताचार्याणां
दिव्यसन्निधौ
सुसम्पन्नम् ।2 वेदान्तकालक्षेपत्वेन
प्रसिद्धसाम्प्रदायिकशिक्षापद्धतौ
नावल्पाक्कं नरसिम्हताताचार्याणां
सकाशात् श्रीभाष्यम्,
रहस्यत्रयसारादिविशिष्टाद्वैतसिद्धान्ताधारभूतग्रन्थवेशेषाणामध्ययनमभवत्
। स्नातकाध्ययनकाल
एव दिव्यसूरिगणान्तर्गताण्डाल्नाम्नाप्रसिद्धगोदादेवीविरचिततिरुप्पावै
दिव्यप्रबन्धस्य
द्राविडभाषामयस्य
संस्कृतभाषानुवादानुरूपपद्यान्यरचयत्
। ततः प्राप्तस्नातकाद्युपाधिः
मद्रपुरीस्थपाठशालायां
शुद्धाद्वैतवेदान्तवैष्णवसिद्धान्तमध्यापयामास
। तथैव विशिष्टाद्वैतसिद्धान्तस्य
वैश्विकप्रसिद्धिकरणाय श्रीनिगमान्तमहादेशिक-विरचित-दिव्यग्रन्थशतानामत्यन्तगम्भीरभाषया
निबद्धानां, पामरजनानामपि
ज्ञानलाभाय श्रीदेशिकसेवा
इति नाम्नीं मासिकपत्रिकां
1948 तमे वत्सर एव प्रारभत
। अनेनाचार्येण
1967 तमे वत्सरे निगमान्तमहादेशिकानां 700जन्मर्क्षोत्सवे
देशिकविरचितग्रन्थशतेषु षष्टिग्रन्थानां
प्रकाशनं नवतिदिनाभ्यन्तर
एव प्रकाशितम्
। तस्मिन्नवसर
एवायमाचार्यः
निगमान्तमहादेशिकस्मारकं
मणिमण्डपम् नामानं देवालवयं
निर्माय तत्र भगवतः
हयग्रीवस्य दिव्याराधनमूत्तिञ्च
प्रतिष्ठापयन्
।3 आचार्यैः
1972 वत्सरादारभ्य
प्रकाशमानस्य
श्रीदेशिकदर्शनदैनिकपुस्तकस्य
लाभेन जनाः वैष्णवनित्यकर्मानुष्ठानादिष्वनायासेन
सम्लग्ना इति विषयः
स्वसम्प्रदायपरिपुष्टय
आचरितानुष्ठानस्य
ज्यैष्ट्यश्रैष्ट्यादिकं
द्योतयति ।
सेवास्वामिभिः
मौलिकग्रन्थाः,
भाषान्तरितग्रन्थाः,
व्याख्याग्रन्थाः,
कीर्तनादयश्च
विरचिताः । तेषां
विवरणं यथा-
क्रमसंख्या |
मौलिकग्रन्थाः |
विषयः |
परिमाणः |
1.
|
श्रीवेङ्कटनाथीयम् |
भगवन्तं श्रीवेङ्कटेशमधिकृत्य |
1008श्लोकपरिमितम् |
2.
|
वरदाभिधानसहस्रम् |
भगवन्तं श्रीवरदराजमधिकृत्य |
1008श्लोकपरिमतम् |
3.
|
हनुमच्छतकम् |
भगवन्तं हनुमन्तमधिकृत्य |
101श्लोकपरिमितम् |
4.
|
हयवदनपञ्चाशत्(भागद्वयात्मकम्) |
भगवन्तं हयग्रीवमधिकृत्य |
100श्लोकपरिमितम् |
5.
|
लक्ष्मीपञ्चाशत् |
भगवतीं लक्ष्मीमधिकृत्य |
52श्लोकपरिमितम् |
6.
|
लक्ष्मीनृसिम्हपञ्चाशत् |
भगवन्तं लक्ष्मीनृसिम्हमधिकृत्य |
52श्लोकपरिमितम् |
7.
|
कोदण्डरामपञ्चाशत् |
मधुरान्तकस्थभगवन्तं
कोदण्डराममधिकृत्य |
53श्लोकपरिमितम् |
8.
|
हयवदनगायत्रीवर्णमालास्तवः |
भगवन्तं हयग्रीवमधिकृत्य |
13श्लोकपरिमितः |
9.
|
हयवदननक्षत्रमालिका |
भगवन्तं हयग्रीवमधिकृत्य |
27श्लोकपरिमितः |
10.
|
हयवदनकलाकलनमालिका |
भगवन्तं हयग्रीवमधिकृत्य |
13श्लोकपरिमिता |
11.
|
दामोदरसुप्रभातम् |
विल्लिवाक्कनगरस्थ
भगवन्तं दामोदरमधिकृत्य |
32श्लोकपरिमितम् |
12.
|
दशावतारस्तोत्रम् |
भगवतः नारायणस्य
विविधावतारान्नधिकृत्य |
500श्लोकपरिमितम् |
13.
|
नृसिम्हानुध्यानम् |
भगवन्तं नृसिम्हमधिकृत्य |
102श्लोकपरिमितम् |
14.
|
घटिकाचलेशस्तवम् |
भगवन्तं चोलिङ्गपुरीस्थमधिकृत्य |
20श्लोकपरिमितम् |
15.
|
सौभाग्यलक्ष्मीस्तोत्रम् |
भगवतीं महालक्ष्मीमधिकृत्य |
30श्लोकपरिमितम् |
16.
|
पद्मावतीस्तोत्रम् |
भगवतीं पद्मावतीमधिकृत्य |
30 श्लोकपरिमितम् |
17.
|
हनुमत् जयकरम् |
हनुमन्तमधिकृत्य |
10श्लोकपरिमितम् |
18.
|
श्रीवेङ्कटेशपञ्चाशत् |
भगवन्तं वेङ्कटेशमधिकृत्य |
50श्लोकपरिमितम् |
19.
|
अक्षयाराधनम् |
श्रीवेदान्तदेशिकमधिकृत्य |
64श्लोकपरिमितम् |
20.
|
मङ्गलपद्यमालिका |
अपरिपूर्णा |
60श्लोकपरिमिता |
21.
|
अमृतवल्लीस्तोत्रम् |
भगवतीममृतवल्लीमधिकृत्य |
30श्लोकपरिमितम् |
22.
|
गोदास्तोत्रम् |
भगवतीं गोदादेवीमधिकृत्य |
50श्लोकपरिमितम् |
क्रमसंख्या |
संस्कृते भाषान्तरिततमिलभाषाग्रन्थाः |
परिमाणः |
1.
|
तिरुप्पावै |
60 श्लोकपरिमिता |
2. |
नाच्चियार् तिरुमोज़ि |
143श्लोकपरिमिता |
3.
|
तिरुवाय्मोज़ि |
1100श्लोकपरिमिता |
4. |
तिरुमालै |
45श्लोकपरिमिता |
5.
|
तिरुकुरुण्दाण्डकम् |
20श्लोकपरिमितम् |
क्रमसंख्या |
व्याख्याग्रन्थाः |
कर्ता |
भाषा |
1. |
यादवाभ्युदयम् |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
2. |
श्रीस्तुतिः |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
3. |
वरदराजप़ञ्चाशत् |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
4. |
गॊपालविंशतिः |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
5. |
देहलीशस्तुतिः |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
6. |
गॊदास्तुतिः |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
7. |
दयाशतकम् |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
8. |
कामासिकाष्टकम् |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
9. |
न्यासदशकम् |
श्रीवेदान्तदेशिकः |
तमिलभाषाग्रन्थः |
10. |
लक्षमीसहश्रम् |
श्रीवेदान्तदेशिकः |
संस्कृतम् |
11. |
श्रवनानन्दम्
(श्रीवरदराजः) |
श्रीवेऩ्कटाध्वरिः |
तमिलभाषाग्रन्थः |
12. |
श्रवनानन्दम् (श्रीरामः) |
श्रीवेऩ्कटाध्वरिः |
तमिलभाषाग्रन्थः |
तथैव चत्वारिंशतदधिकानि
भगवत्कृष्णविषयकानि
कीर्तनविशेषानि
सेवास्वामिभिः
लोकोपकाराय समनुगृहीतानि
। अयञ्च
महानाचार्यः
विद्वद्समाजे
चिन्तामणिवत्
विराजते स्म ।
स्वामिनां –सेवा-
इति सम्बोधनमनन्यविशेषं
किञ्चित्भावं
प्रकाशयति । सेवा
इति सम्मानाह्वानं
न केनचिद्वैयक्तिकविदुषा
समित्यादिना वालङ्कृतमपितु
तेषामत्यन्तपरिश्रमजनितभगवत्भागवतसेवैव
फलीभूतं स्वयमेव
विद्वत् समाजे
सेवात्वभावमापन्नम्
। सेवा इति
नाम विद्वत् सेवा,
सेवा योग्य इत्यादि
विशेषार्थेऽपि
प्रयुज्यते ।
सेवास्वामिनं
प्रति सम्मानित
पुरस्काराणां
विवरणमपि तेषां
कृतित्वालङ्कारितं
व्यक्तित्वं प्रकाशयति
। आचार्योऽयं भारतदेशस्य
विविधसंस्थाभिः सम्मानिताः
। स्वयं
भारतराष्ट्र्पतिनापि
ईशोत्तर 1992 तमे संवत्सरे संस्कृतसाहित्यक्षेत्रेऽनितर
साधारणयोगदानाधारेण राष्ट्रपति
पुरस्कारेन सम्मानिताः
। मद्रपुरीविश्वविद्यालये
वैष्णवविभागे “Resource Person”
रूपेन अपि सम्मानिताः।
विविधसम्मानानां
सूची यथा-
·
साहित्यरत्नम्
·
विद्याविनोदः
·
देशिकदर्शनरक्षामणिः
·
दयासेवकः
·
देशिकभक्तरत्नम्
·
देशिकसेवासक्तः
·
देशिकदर्शनसेवाधुरीणः
·
संस्कृतप्रचारचतुरः
·
शुद्धाद्वैतभूषणम्
·
देशिकदर्शनचूङामणिः
·
कृष्णसेवाधुरन्धरः
·
तिरुप्पावै
थूमणिः
·
मनिदनेयमामणि
1994 तमे वत्सरे
श्रीवेदान्तदेशिकानुसन्धानकेन्द्रस्यापि
(श्रीवेदान्तदेशिक
रिसर्च सेन्टर्
) वैष्णसिद्धान्तपुष्टये
मद्रपुर्यां निर्माणमकुर्वन्
। सेवा स्वामिभिः
समाचरितभगवत्कैङ्कर्येष्वनेकेषु
सत्स्वपि द्रविडदेशे
विद्यमानेषु वेदान्तदेशिकसन्निधीषु
प्रतिसांवत्सरिकवस्त्रसमर्पणकैङ्कर्यममूल्यमेव
।
भगवद्रामानुजसमनुगृहीतविशिष्टाद्वैतवैष्णवसिद्धान्तस्य
वेदान्तदेशिकवाण्या
प्रचारप्रसाराय
बद्धसङ्कल्पाः
सेवास्वामिनः
विविधविद्वत्मणिभिः
सह प्रयत्नमकुर्वन्
।
एवमादिविशेषणविशिष्टस्याचार्यस्य
भगवन्नारायणपरमपदप्राप्तिः ईशोत्तर
2001 तमे वत्सरे मई
मासे प्रथमदिनाङ्केऽभवत्
।
सन्दर्भानुक्रमणिका
1. 50 years of service to Desika
Sampradaya- Article, The Hindu, Dated April 10, 1998
2. Tiredless Service to Humanity-
Article, The Hindu-Friday Review, Dated May 11, 2001
3. The Ghanta Avatara and The Mani
Mandapam- an Article by Shri M.K.Srinivasan, Seva Lives, N.S.Gandamani, Seva
Swamy Memorial Foundation, Madras,2002
सहायकग्रन्थसूची-
1. Seva Lives, N.S.Gandamani, Seva
Swamy Memorial Foundation, Madras,2002
2. ManiMandapa Seva (In Tamil),
N.S.Gandamani, Seva Swamy Memorial Foundation, Madras, 2009