ISSN 0976-8645
अरिष्टप्रदयोगाः
डा.
प्रदीप झा
लखनऊ
ज्योतिषशास्त्रस्य
त्रयः स्कन्धाः
सन्ति। तद्यथा
कालविधानपरकः
सिद्धान्तस्कन्धः
प्रथमः, कर्मविधानपरकः
होरास्कन्धो द्वितीयः, लोकहितविधानपरकः
संहितास्कन्धश्च
तृतीयः। तेषु होरास्कन्धः
अन्यतमः। स्कन्धेऽस्मिन्
लोकहितकारकाः
विषयाः विपुलतया
आवृताः दृश्यन्ते।
वेदाङ्गे अस्य
शास्त्रस्य महिमा
सर्वोपरि कथितोऽस्ति-
‘‘वेदस्य
निर्मलं चक्षुः
ज्योतिः शास्त्रमकल्मषम्’’ वाक्येनाऽनेन
निश्चीयते वैदिकसाहित्ये
ज्योतिषशास्त्रस्य
महत्ता कीदृशी
विद्यते।
शुभाशुभफलदायकस्य
कालस्य ज्ञानानन्तरं
कदाचित् क्लेशः
समायाति यदा शुभफलदायके
समये अपि तादृक्छुभफलं
न दृश्यते तथैव
अशुभफलदानकालेऽपि
नाशुभफलं घटते।
योगानुसारेण एतादृशः
कालः जातकस्य जन्मकुण्डल्यां
वीक्षणं कर्तव्यम्।
इह परिस्थितौ यावन्ति
कारणानि भवितुमर्हन्ति
तेषु अरिष्टयोगोऽन्यतमः।
कस्यापि
फलस्य निर्धारणाय
शास्त्रीयसिद्धान्तानां
विवेचनं चिन्तनं
वा महन्महत्त्वाधायकं
स्थानमधिरोहति।
अत्र
‘अरिष्ट’ शब्दः
कष्टसूचकोऽस्ति।
अरिष्टेन साकं
मृत्युयोगविषयेऽपि
चर्चा आवश्यकी।
कस्मिंश्चित्
ग्रन्थे अयं अरिष्टशब्दो
मरणसूचको कष्टसूचक
वा अस्ति। वस्तुतस्तु
अरिष्टप्रदयोगस्य
मृत्युयोगस्य
च निर्धारणं स्वतन्त्ररूपेण
भवति।
आदौ
अरिष्टप्रदयोगस्य
विवेचनं क्रियते-
अरिष्टविचारप्रसङ्गे
प्रमुखतया त्रिक-त्रिषडाय
भावाः एवं तेषु
भावेषु चन्द्रस्य
बलाबलं, स्थितिः, शुभग्रहस्य
शुभत्वं, भावकारकस्य
च स्थितिः विशेषविचारणीया
भवति। इमे भावकारकाः
सन्ति-
तरणिरमरमन्त्री
मङ्गलश्चन्द्रसौम्यौ
गुरुरथ
शनिभौमो शुक्र
अर्किः क्रमेण।
अमरगुरुदिनेशो
मन्दभानुज्ञजीवाः
सुरगुरुरपि
मन्दः कारकाः स्युर्विलग्नात्।।
अर्थात्
लग्नस्य सूर्यः, द्वितीयभावस्य
गुरू, तृतीयभावस्य
भौमः, चतुर्थभावस्य
चन्द्रबुधौ, प॰चमभावस्य
गुरुः, षष्ठभावस्य
शनिकुजौ, सप्तमभावस्य
शुक्रः, अष्टमभावस्य
शनिः, नवमभावस्य
गुरूसूर्यो, दशमभावस्य
गुरुशनिबुधसूर्याः, एकादशभावस्य, गुरूः
द्वादशभावस्य
शनिः स्थिरकारकोऽस्ति।
तन्वादि
द्वादशभावानां
नामानि जातकालङ्कारे
एवम् उक्तम्-
देहं
द्रव्यपराक्रमौ
सुखसुतौ शत्रुः
कलत्रमृति-
र्भाग्यं
राज्यपदं क्रमेण
गदिता लाभव्ययौ
लग्नतः।
भावा
द्वादश तत्र सौख्य
शरणं देहे मतं
देहिनां
तस्मादेवं
शुभाशुभाख्य फलजः
कार्यो बुधैनिर्णयः।।
अपि
च-
तनुधनसहजसुहत्सुतदिपुजायामृत्यु
धर्मकर्माख्याः।
व्यय
इति लग्नाद्भावाश्चतुरस्ररव्येऽष्टमचतुर्थे।।
अर्थात्
प्रभमभावात् शरीबलं, रूपवर्णादीनां
च विचारः, द्वितीयभावात्
धनकुटुम्बासनादीनां
विचारः, तृतीयभावात्
भातृभृत्यपराक्रमाणां
विचारः, चतुर्थभावात्
गृहं सुहृन्मातुः
सुखप्रभृतीनां
विचारः, प॰चमभावात्
धीदेवराजपितृनन्दनप्रभृतीनां
विचारः, षष्ठभावात्
व्याधिरिपुमातुलादीनां
विचारः, सप्तमभावात्
वणिक्क्रियाजाया
गमनागमनप्रभृतीनां
विचार, अष्टमभावात्
मृत्युसम्बन्धिविचारः, नवमभावात्
धर्मभाग्यपरोपकारादीनां
विचारः, दशमभावात्
आज्ञामानविभूषणवसनव्यापारनिद्राद्रव्यादीनां
विचारः, एकादशभावात्
लाभविचारः, द्वादशभावात्
व्यय-अपव्ययोगादीना॰च
विचारो विधीयते।
भावाधिपः, भावकारकश्च
बलाबलं वशात् शुभाशुभफलानां
विवेचनं कर्तव्यम्।
चन्द्रमा
मनसो जातः, इन्दुः
सर्वत्र बीजसदृशः
ज्योतिषशास्त्रे
कार्यं करोति, चन्द्रः
मनसः कारकोऽस्ति।
चन्द्रो यदा पापग्रहैर्दूषितो
भवति तदा जातकः
गात्रे पीडां मानसिकीमशान्ति॰च
आप्नोति। जातकस्य
मनसि व्याकुलता
भवति, एतस्यां
स्थितौ सः किमपि
निर्णयं सम्यक्तया
न कर्तुं शक्नोति, एतादृश-जातकोपरि
जीवनेषु पीडादायकपरिस्थित्यः
आयान्ति। अरिष्टप्रसङ्गेषु
शनिमङ्गलयोः चन्द्रोपरि
दृष्टिश्चेत्
भवेत्तदा जातकः
महत्कष्टमवाप्नोति।
बालारिष्टः
पराशरमुनिना
उक्तं यथा अरिष्टाध्याये-
चतुर्विंशतिवर्षाणि
यावद् गच्छन्ति
जन्मतः।
जन्मारिष्टं
तु तावत्स्यादायुर्दायं
न चिन्तयेत्।।
षष्टाष्टरिष्फगश्चन्द्रः
क्रूरैः खेटैश्च
वीक्षितः।
जातस्य
मृत्युदः सद्यस्त्वष्टवर्षैः
शुभेक्षितः।।
अरिष्टप्रदयोगस्य
कालः होराग्रन्थेषु
निर्दिष्टः। आचार्याणां
मतानुसारेण चतुर्विंशति
वर्षपर्यन्तं
अरिष्टविचारः
कर्तव्यः।
चन्द्रस्य
स्थितिः त्रिकस्थाने
स्यात् तस्योपरि
शुभग्रहस्य दृष्टिश्च
न भवेत् तदा बालारिष्टयोगः।
तथा च लग्नाधिपः
त्रिकस्थानेषु, अत्रापि
शुभग्रहाणां युति
दृष्टिश्च न स्यात्
तदा बालारिष्टयोगः
भवति। तथा च भावकारकः
त्रिकस्थाने भवति
शुभ ग्रहस्य दृष्टिः
न स्यात् पापग्रहस्य
दृष्टिः स्यात्तदाप्यरिष्टकारकः
योगः।
केन्द्रे
कोणे च शुभग्रहाभावे
लग्नाधिपः त्रिकोणाधिपश्च
क्षीणचन्द्रः
पापग्रहर्योमध्ये
स्यात् तदापि बालारिष्टयोगः
भवति।
सद्यः
मृत्युयोगः
यदा
चन्द्रः जन्मलग्नात्
अष्टमे वा षष्ठे
स्थाने भवति तस्योपरि
पापग्रहस्य दृष्टिः
स्यात् शुभग्रहस्य
दृष्टिः न स्यात्
तदा जातकस्य सद्यः
मृत्युर्भवति।
तथा च यस्य जन्मलग्नात्
द्वादशभावे क्षीणचन्द्रो
भवति लग्ने वा
अष्टमे पापाः केन्द्रस्थाने
शुभग्रहाः न भवन्ति
तदा जातकस्य शीघ्रमृत्युयोगः
भवति।
षष्ठेऽष्टमेऽपि
चन्द्रः सद्यो
मरणाय पापसन्दृष्टः।
अष्टाभिः
शुभदृष्टो बर्षैर्मिश्रैस्तदर्धेन।।
क्षीणेन्दौ
द्वादशगे लग्नाष्टमराशिसंस्थितैः
पापैः।
सौम्यरहिते
च केन्द्रे सद्यो
मृत्युविनिर्देश्यः।।
यथोक्तम्-
एकमासे
मृत्युयोगः लघुजातके
एवं कथितः-
शशिवत्सौम्याः
पापैर्वक्रिभिरवलोकिता
न शुभदृष्टाः।
मासेन
मरणदाः स्युः पापजितो
लग्नपश्चास्ते।।
यदि
कोऽपि ग्रहः शशिना
तुल्यं लग्नात्
षष्ठाष्टमे भवति
वक्रगतेन पापिग्रहेण
अवलोक्यते तथा
च शुभग्रहस्य दृष्टिः
न स्यात् तदा जातकः
एकमासपर्यन्तं
जीवति।
यस्य
जन्मकुण्डल्यां
चन्द्रग्रहेण
वा सूर्यग्रहणे
राहुचन्द्रसूर्याणां
युतिर्भवेत् एवं
लग्नोपरि शनिकुजयोः
दृष्टिः स्यात्तदा
पक्षपर्यन्तं
जीवति। अरिष्टप्रसङ्गे
अष्टर्वर्षपर्यन्तं, चतुवर्षपर्यन्तं, मासपर्यन्तं
एवं सद्यः मृत्युविचारः
होराचक्रे युक्तिपूर्वकं
विचारः अपेक्षितः।
पापिग्रहाणां
दृष्टिः यदा त्रिकस्थचन्द्रोपरि
पतति तर्हि अष्टवर्षपर्यन्तं
मृत्युः ज्ञायते।
चन्द्रः यदा पापकर्तरि
योगयुक्तो भवेत्
वा लग्नस्थ अष्टमस्थ
द्वादशस्थ सप्तमस्थ
च चन्द्रः पापकर्तरि
योगयुक्तो भवेत्
तर्हि जातकस्य
सद्यो मृत्युर्भविष्यति।
यथोक्तम्-
चन्द्रसूर्यग्रहे, राहुश्चन्द्रसूर्ययुतो
यदि।
सौरिभौमेक्षितं
लग्नं पक्षमेकं
स जीवति।।
मातृकष्टविचारः
यदा
चन्द्रोपरि त्रयाणां
पापग्रहाणां दृष्टिः
पतति तदा मात्रा
सह मरणं ज्ञायते।
यदा शुभदृष्टिः
स्यात् तर्हि मातुर्मृत्युः
न भवेत्। तद्यथा-
त्रिभिः
पापग्रहैः सूतौ
चन्द्रमा यदि दृश्यते।
मातृनाशो
भवेत्तस्य शुभैर्दृष्टे
शुभं वदेत्।।
विलग्नात्
सप्तमे पापग्रहः
भवेत् लग्नाधिपश्च
पापग्रहेण संयुतः
तदारिष्टः भवेत्।
तद्यथा-
लग्नपः
पापसंयुक्तो लग्ने
वा पापमध्यगे।
लग्नात्सप्तमगः
पापस्तदा चात्मवधो
भवेत्।।
सप्तम्-द्वादश-तृतीय-दशमस्थानेषु
च पापग्रहः स्यात्
तर्हि जातकस्य
विशेषरूपेणारिष्टप्राप्तिः
स्यात्। यथोक्तम्-
स्मरे
व्यये च सहजे मध्ये
पापग्रहा यदि।
तदा
जातस्य बालस्य
शरीरे कष्टमादिशेत्।।
पितृकष्टविचारः
यस्य
जन्मकुण्डल्यां
लग्नेशो सप्तमे
कुजः षष्ठे चन्द्रः
तिष्ठति, तस्य
जनकः न जीवति यदा
सप्तमे सूर्यः, दशमे
भौमः, द्वादशे
राहुः तिष्ठति
तस्य पितुः कष्टो
भवेत्।
तद्यथा-
लग्ने
मन्दो मदे भोमः
षष्ठस्थाने च चन्द्रमाः।
इति
चेज्जन्मकाले
स्यात् पिता तस्य
न जीवति।।
अरिष्ट
भङ्गः कदा भवति
यदा
गुरूः बली भूत्वा
लग्ने स्थितो भवेत्
तदा तथैव अरिष्टं
भग्नं करोति यथा
भक्तिपूर्वकं
कृतः शङ्करनमस्कारः।
बुधः, गुरुः, शुक्रश्च
एतेषु यदि एकः
बली भूत्वा केन्द्रस्थाने
स्थितः क्रूरग्रहेण
न दृश्यते न च युतोः
भवेत् तदा अरिष्टस्य
नाशं करोति।
यथोक्तम्-
एक एव
बली जीवो लगनस्थोऽरिष्टस॰चयम्।
हन्ति
पापक्षयं भक्त्या
प्रणाम एव शूलिनः।।
अनेन
प्रकारेण अरिष्टयोगविचाराः
क्रियन्ते, जातकग्रन्थेषु
अन्येऽपि बहवः
योगाः सन्ति ये
अरिष्टयोगप्रकरणे
सुस्पष्टतया द्रष्टुं
शक्यते।
’शिक्षाशास्त्रविभागः
(अध्ययनरत)
राष्ट्रियसंस्कृतसंस्थानम्
(मानितविश्वविद्यालयः)
लखनऊपरिसरः, लखनऊ