ISSN 0976-8645
प्रकाशकीयम्
बिपिन
कुमार झा
साहित्यविभागः
राष्ट्रियसंस्कृत
संस्थानम्,
पुरी,
ओडिशा
विचित्रचित्रिहेत्वाभासादिचाञ्चल्यावस्थापूर्णप्रपंचे
मनुजपुत्राः अपि
कालकवलिताः जायमानाः
सन्ति। विकाससोपानानि
वर्धितानि। नूतनं
दृष्टिकोणमपि
समापतत् । अत्र
विचारणीयः भवति
यत् विकासस्य स्वरूपं
सर्वांगीणमस्ति
न वा ? यथा- विषसम्पृक्तमधु
अपि प्राणघातकं
भवति न तु तदमॄतम्
। अतः रचनात्मकविकासः
भवेत्। येन सर्वे
आनन्दिताः भवेयुः।
मानवेभ्यो बहूनि
वस्तूनि आवश्यकानि
भवन्ति। तत्र भौतिकावश्यकताः
अधुना प्रबलास्संजाताः
भवेन्नाम तावत्।
अत्र नियन्त्रणस्यावश्यकता
समुचित विकासाय
भवति । यथा सर्वविधविकासः
भवेत् तथैव वयमिच्छामः।
सन्दर्भेस्मिन्
विभिन्न पत्र-पत्रिकादिमाध्यमेन
प्रजानां विचारः
प्रस्फ़ुटितो जायते।
तदाधारीकृत्यैव
नूतनदिशा-निर्देशः
प्रचष्टे। अस्यां
श्रृङ्खलायामेव
नूतनाङ्कोऽयम्
सम्प्रकाशितः।
ईश्वरकृपया कार्यमिदं
साफ़ल्यं संजायते
इति मन्ये। सारस्वतकर्मण्येऽस्मिन्
ये महामान्या:
सुविज्ञाः पण्डिताः
स्वाशीर्वचोभिः
सनाथीकृतवन्तः
तेभ्यः महानुभावेभ्यः
प्रणतिपूर्वकं
प्रणमाञ्जलिमर्पयामि
। अन्येभ्यस्सहायकेभ्यः
वाग्व्यापारैः
भूयोभूयः धन्यवादान्
व्याहृत्य भगवन्तमुपास्यदेवं
सम्प्रार्थ्य
विस्तरात् विरमामि
।
विनयावनतः
गणतन्त्रदिवसः
बिपिनकुमारझा