ISSN 0976-8645
महाभाष्ये
लौकिकदृष्टान्तानामुपयोगिता
विद्यावाचस्पति
पण्डित
सदानन्द झा[1]
बिपिन कुमार
झा[2]
व्याकरणशास्त्रे
महाभाष्यकारः
पतंजलिः परमवन्दनीयोस्ति
। यतोहि
मुनित्रयं
नमस्कृत्य
तदुक्तीः
परिभाव्यचेति[3]
मंगलपद्यम
भट्टोजिदीक्षितेनोक्तं
तथाच[4]
यथोत्तरं
मुनीनां
प्रमाण्यं
बहुधा यत्र-तत्र
स्वकीय ग्रंथ
रत्ने
समुल्लिखितम्।
महामहोपाध्याय
नागेशेनापि
पातंजले
महाभाष्येकृतभूरि
परिश्रमः, अशेषफ़लदातारं
प्रार्थयेशेषभूषणम्
। नागेश
गुरुणा
हरिदिक्षितेनापि
शब्दरत्न
मंगलपद्ये
शेष[5]
विभूषणमीडे
शेषाशेषार्थलाभाय
दातुं
सकलमभीष्टं
फ़लमीष्टे यत्
कृपादृष्टिः।
अयशेषपदेन
पतंजलेर्ग्रहणत्वन्यस्य।
महाभाष्यकारस्य
प्रमाणिकता
यथैव सर्वसम्मता
तथैव तस्य
प्रतिपादन
शैली हृदयवार्जिका
भवति स सदैव
शास्रं
लोकानुगतं
प्रतिपादयति
। लौकिक दृष्टान्तं
द्वारा विषयं
सुस्पष्टं
करोति।
साम्प्रतं महाभाष्य
प्रयुक्तानां
लौककदृष्टान्तानां
काचन चर्चा
स्वान्तः
सुखाय
छात्राणामुपकाराय
विदुषां मनो
विनोदाय
सुलभरीत्या
प्रस्तूयते।
लौकिकन्यायो
नाम
लोकप्रसिद्धव्यवहारः
। अस्यां
स्थितौ लोकम्
एवमेव भवतीति
सर्वजन
प्रसिद्धः
काश्चिद् दृष्टांत
एव लोकन्याय
शब्देनोच्यते।
१. कपूरवानकन्यायः-
कार्यकरणयोः
प्रचुरदुखं भवति
।किन्तु
तत्फ़लेन
तन्मार्जनपूर्वकं
फ़लं लभ्यते ।
कपूरवानकः
कूपखनन् पांसुभिश्चावकीर्णोभवति,
किन्तु
सम्प्राप्ते
पानीये
तत्रैव
तन्मार्जनं
कृत्वा
स्वच्छं जलं
पर्याप्तं
प्रोप्नोति ।
तत् स्वयं
पिबति सहस्रं
जनान् पाययति
चेति। एवं
शब्दं जानन्
अपशब्दामपि
जानात्येव किन्तु
ज्ञाते शब्दे
तत्पुण्येन
दोषोपि नश्यति,
पुण्यातिशयं
च
प्राप्नोति।[6]
२. व्यपदेशिवन्न्यायः:-
व्याकरण
पदार्थनिरुपणावसरे
सूत्रमेव
व्याकरणमिति
निरुपयन्
व्याकरणस्यसूत्रमिति
षष्ठयर्थनिपपत्तिर्व्यवदेशिवन्यायेन
समादधाति।
राहोः शिर इति
लोके
एकस्मिन्नपि
वस्तुनि
शव्दार्थ भेदाद
भेदव्यवहारः
एवमिहापि
व्याकरणशब्देन
शास्त्रस्य
व्याकृति
कृयायां
करणरुपत्वमुच्यते,
सूत्रशब्देन
तु समुदाय
रुपतेति
भेदव्यवहार
इतिकैयटः ।
३. द्विगतापिहेतव
इतिन्यायः[7]
आम्राश्चसिक्ताः
पितरश्च
प्रीणिताः ।
एकाक्रिया द्वयर्थकरी
प्रसिद्धा।
४. अइउण्
सूत्रे:- विषयेणतु
नाना
लिंगकरणात्
सिद्धमतिवार्तिके
लोकात् सिद्धमेततित्युक्तम्
।
५. तथाहि-
कश्चिद्
देवदत्तमाह-
इह मुण्डो भव, इह
जटिलो भव,इह
शिखी भवेति, यल्लिंगं,
या च विभक्तिः
तल्लिंगं तयोपतिष्ठते।
इत्थं
लोकव्यवहारवत्
सार्वभौमिकव्यवहारमिष्यते,
न तु लोकविरुद्धमित्यायाति
।
लोकन्यायपरम्परानुसारेण
शास्रीयतत्वं
झटित्येव
हृदयङ्गमं
भवति। यतोहि
लोकव्यवहारः
पूर्वत एव
चित्ते दृढं
स्थानं
कृतवान्
भवति।[8]............... Continue…………