ISSN 0976-8645
आधुनिकभारतीयशिक्षापद्धतेः
गुणदोषविवेचनम्
रामसेवक
झा
नव्यव्याकरणाचार्यः,
शिक्षाचार्यः
राष्ट्रियसंस्कृतविद्यापीठम्,
तिरुपतिः
अङ्गानि
वेदष्चत्वारो
मीमांसा न्यायविस्तरः
धर्मषास्त्रं पुराणं च
विद्या ह्येतांचतुर्दश।
आयुर्वेदो
धनुर्वेदे गान्धर्ववेदं
चेति ते त्रयः
अर्थषास्त्रं
चतुर्थं च
विद्या ह्यष्टादषैवताः।।
शिक्षायाः
स्वरूपम्
शिक्षा कीदृशी
स्यात्? इति प्रष्नः
प्राक्कालादेव
चर्चाविशयोऽस्ति।
‘सा शिक्षा (विद्या)
या विमुक्तये’
, इति आसीत् ऋशिसमयः।
सा विद्या एव प्रकृष्टा
या विद्या मुक्तिं
प्रददाति, अथवा
या लोकपरलोकोभ्यसाधनी
सा विद्या।
‘शिक्षा’ इति
शब्दः शिक्ष् विद्योपादाने
इति धातोः निष्पन्नोऽस्ति।
यस्य च अर्थः भवति
शिक्शणम्, अध्ययनं
वा। एवमेव ‘विद्या’
इति शब्दः विदलृ
उपादाने, इति धातोः
निष्पन्नेऽस्ति।
सोऽपि पूर्वोक्तार्थमेवाभिप्रैति।
आङ्ग्लभाषायां
शिक्षा इति शब्दः
म्कनबंजपवद नाम्नाभिधीयते।
शिक्षाणामजीवनप्रचाल्यमाना
काचित् गतिषीला
प्रक्रिया, इति
व्यापकार्थे स्वीकर्तव्या।
एवं यया सर्वाङ्गीण
समुन्नतिः संजायते
सा शिक्षा।
साम्प्रतिकभारतीयशिक्षापद्धतेः
गुणदोषाः
साम्प्रतिकवर्गादिभेदम्
अनाश्रित्य सर्वजनसुलभेत्यभेत्येव
साम्प्रतिकभारतीयशिक्षापद्धतेर्गुणः।
अपरतो दोषाष्चेद्
लक्ष्यन्ते तर्हि
शिक्ष्पद्धतिरियं
विविधासाध्यारोगग्रस्ता
सन्ति। तत्र मुखत्वेनोल्लेखा
दोषा सन्ति-
1. धार्मिकता-चरित्र-जितेन्द्रियत्व-ब्रह्मचर्यसत्यभाशणादिगुणानाम्
उपेक्षा क्रियते।
2. स्वार्थबुद्धेः,
असमयस्य, अनैतिकतायाष्चाप्रतिहतः
प्रसारः।
3. दूशितराजनीतेः
प्रवेषः।
4. श्रमे श्रमसाध्ये
कार्ये वाऽरुचिः।
5. शिक्षापद्धतेर्दोषात्
परीक्षाणां दोषाकुलत्वम्।
6. परीक्षाविधेर्दूशिता
प्रणाली।
7. उपाधीनाम्
अवमूल्यनम्।
8. शिक्षायाः
अर्थकरीत्वाभावः।
साम्प्रतिकेयुगे
उपरोक्तं दोषाणाम्
अनेन विधिना अपेक्षिताः
परिस्काराः कर्तुं
शक्यते। तद्यथा-
षैक्षिकदृष्ट्याऽपेक्षिताः
परिष्काराः
1. षैक्षिक-स्तरोन्नयनं
स्यात् - आधुनिकशिक्षां
सर्वतेऽवनतिरवलोक्यते।
वैदेशिकशिक्षापद्धतिस्तरदृष्ट्या
भारतीयशिक्षास्तरोऽवनततमो
विज्ञायते। अतः
शिक्षास्तरोन्नयनं
विना न शिक्षा
श्रेयसी भवितुमर्हति।
2. शिक्शणपद्धतौ
परिष्करणीयः -
वर्तमानशिक्षापद्धतौ
न तथा विशयबोधे
बलम् आधीयते, यथा-रटनम्
(कण्ठस्थीकरणं)
पद्धतौ। विशयबोधमन्तरेण
न तत्वार्थावगमः।
3. परीक्षापद्धतौ
परिष्कारः - आधुनिकपरिप्रेक्ष्ये
परीक्षापद्धतौ
आमूलचूलं परिवर्तनमिष्यते।
वर्तमानकीपरीक्षापद्धतियोग्यता
निर्धारणं विहाय
येन केनापि प्रकारेण
साधुना असाधुना
वोपायेन परीक्षोत्तरणम्,
तत्र च योग्य-श्रेणी-प्रापणं
समर्थ्यते।
4. षोधच्छात्राणां
प्रवृत्यद्भावनम्
- छात्रेषु विशयान्
प्रति स्वाभाविकी
अभिरुचिः उदियात्,
येन जीवेन तस्य
तत्त्वावगाहित्वं
गम्भीराध्ययनं
च सम्पद्यते।
5. पाठ्यक्रमातनुपयोगि-विशयनिःसारणम्
- मुख्यतया विद्यालयीयशिक्षाक्रमे
बहवोऽनुपयोगिनो
विशयाः पाठ्यत्वेन
निर्धायन्ते, तेषां
पाठ्यक्रमादमवष्यमेव
निःसारणं करणीयम्।
सामाजिकदृष्ट्याऽपेक्षिताः
परिष्काराः
1. आधुनिकशिक्षायां
षारीरिक-श्रममहत्त्वशिक्शणम्
- आधुनिकशिक्षायां
षारीरिक-श्रममहत्त्वं
न शिक्ष्यते, न
च प्रशस्यते। तदर्थं
स्वावलम्बनभावोऽपि
न जागर्ति। षारीरिक-परिश्रमे,
क्षेत्रादिषु
कार्यकरणे, स्वच्छत-कार्यसम्पादने
गौरवमेवावगन्तव्यम्।
न च तत्र लज्जायाः
किंचित् करणम्।
2. जातीय-दोषनिराकरणम्
- आधुनिकशिक्शणव्यवस्थायां
केचन विद्यलयमहाविद्यलयाष्च
ब्राह्मण-क्शत्रिय-वैष्यादिवर्गविषेशमाश्रित्य
संचालयन्ते। एतत्
सर्वथा दोषावहम्।
अनेन देषोन्नतौ
बाधकाः। अतः शिक्षायाम्
एतादृषी व्यवस्था
निरसनीया।
राष्ट्रिय-दृष्ट्याऽपेक्षिताः
परिष्काराः
1. देशभक्ति-भावोदयः
- छात्रेषु देशभक्तिम्
उत्थानाय शिक्षानिर्देशकैर्न
किंचिद् निर्दिष्यते।
परिणामस्वरूपम्
अधीतिनो विद्यार्थिनौ
देशभक्तिभावनाः
षून्याः दृष्यन्ते।
2. राजनीति-निष्कासनम्
- छात्रसंघमाध्यमेन
छात्रेषु राजनीतरारोप्यते।
अनिच्छन्तोऽपि
छात्रा नेतृवर्गेण
विष्वविद्यालयादिषु
स्ववाद-प्रचारार्थं
प्रेर्यन्ते, तदर्थं
धनव्ययष्च विधीयते,
एतत् सर्वथ गर्हणीयम्।
3. शिक्षाक्षेत्रे
क्रीडादीनं सुव्यवस्था
- शिक्षाक्षेत्रे
छात्राणां क्रीडाविशये
नाभिरुचिर्जागर्यते।
क्रीडयोग्यता-विरहितं
जीवनं निष्फलं
निरर्थकं च।
नैतिक-दृष्ट्याऽपेक्षिताः
परिष्काराः
1. आचारशिक्षा
- सत्य-ब्रह्मचर्यादि
महत्त्वशिक्शणमनिवार्यं
स्यात्। अनन्तरेण
नैतिकशिक्षां
जीवनं पाशविकमासुरं
च प्रवर्तते। तदर्थम्
आचारशिक्षानिवार्या
स्यात्। प्राचीनकाले
आचार्यः ब्रह्मचारिणे
सदाचारणस्य शिक्षां
प्रदाय तस्य जितेन्द्रियत्वं
पोशयति स्म। तद्यथा-
आचार्यो
ब्रह्मचर्येण
ब्रह्मचारिणमिच्छते।
2. मातृत्वभावना
- आधुनिकशिक्शणव्यवस्थायां
यदि मातृवत् भावना
भवेत् तर्हि बहवः
समस्याः स्वयमेव
समाधास्यन्ते।
तद्यथा-
मातृवत् परदारेषु परद्रव्येषु लोष्ठवत्।
आत्मवत्
सर्वभूतेषु यः
पष्यति स पण्डितः।।
3. गुरुशिष्यसम्बन्धः
- गुरुस्तु शिक्शकस्य
समानपदम्। प्राचीनभारते
त्रिप्रकारकाः
गुरवः भवन्ति स्म।
आचार्यः, गुरुः
उपाध्यायाष्च।
यास्काचार्योऽपि
निरुक्ते आचार्यपदस्य
व्युत्पत्तिं
कथयति-
आचार्यः
कस्मात्? आचार्य आचारं ग्राह्यते।
आचिनोति
अर्थान्, अचिनोति
बुद्धिमिति वा।।
अतः गुरुशिष्याणां
सम्बन्धस्तथाविधः
स्याद् यथा द्वावेव
अन्योन्य-हित-सम्पादन-पूर्वकं
सामंजस्यं सम्पादयेताम्।
सांस्कृतिक-दृष्ट्याऽपेक्षिताः
परिष्काराः
सांस्कृतिकदृष्टिः
- आधुनिकछात्रेषु
सांस्कृतिकदृष्ट्या
अनेकप्रकारकेण
विकासः स्याद्
येन धर्माभिरुचिः
चरित्रोन्नतौ,
विविधनृत्य-गीत-कलासु
प्रवृत्तिः, विनयादि
सर्वगुणसम्पन्नं
स्यात्। अतः एतादृषी
शिक्षाव्यवस्थां
कल्पनीया।
आर्थिक-दृष्ट्याऽपेक्षिताः
परिष्काराः
1. शिक्षाया अर्थकरीत्वम्
- शिक्षाया अर्थकरीत्वमनिवार्यं
स्यात्। याऽधीतानं
जीविकानिर्वाहं
वृत्तिव्यवस्थां
च न साधयति, न सा
शिक्षा श्रेयसी।
केनोक्तम्-
टकाधर्मः टकाकर्मः टकाहि परमं तपः।
यस्य
पार्ष्वे टका नास्ति
स एव टकटकायते।।
2. आधुनिकविष्वविद्यलयेषु
छात्रप्रवेशनियन्त्रणं
भवेत् - इदानीं
विष्वविद्यालयेषु
येऽध्ययनरुचयः,
व्यत्पन्नाः, विविधषास्त्रदक्षाः
ते एव प्रवेष्याः।
तत्र च विशयविषेशज्ञातमनुरुध्यापनव्यवस्था
स्यात्। केवलमुपाधिप्राप्त्यर्थं
छात्रप्रवेषो
न स्यात्।
3. औद्येगिकं
प्रशिक्शणम् -
विद्यालयेषु महाविद्यालयेषु
तथा औद्योगिकं
यान्त्रिकं हस्तकलाविशयकं
कलविशयकं शिक्शणं
स्यात्, यथा कुटीरलघूद्योगेषु
च छात्राणां ज्ञानमुपयुज्यते।
एवं वृत्ति-समस्या
कथंचिद् निराकर्तुं
शक्यते।
4. शिक्षायाः
स्वल्पव्ययसाध्यत्वम्
- साम्प्रतिकी
शिक्षा तथा व्ययसाध्या,
यथा निर्धनानां
सामान्यजनानां
चोच्चशिक्षाग्रहणं
सुदुष्करमेव।
संस्कृतभाषादृष्ट्याऽपेक्षिताः
परिष्काराः
1. पाष्चात्यीकरणस्य
त्यागः - आधुनिकभारतीय-शिक्षा-पद्धतौ
पष्चात्यप्रभावो
यथा यथा वर्धते
पद्धतिर्दोशपूर्णत्वमुपैति।
पाष्चात्यप्रणाली,
आङ्ग्लभाषा संरक्शणं,
बाह्याडम्बरष्च
यथा पाष्चात्यदेषानुकूलं
न तथा भारतदेषानुकूलं,
भारतेगौरवानुरूपं
च।
2. संस्कृतपाठषालादीनामनुपेक्शणम्
- प्राचीनपद्धतिमनुसृत्य
प्रवर्तिताः संस्कृतपाठषालः
संस्कृतमहविद्यालयादयः
सपत्नीकसुता इवोपेक्ष्यन्ते,
दारिद्रयानलसधुक्षिताष्च
सम्प्रेक्ष्यन्ते।
त्रिभाशसूत्रं
तु संस्कृतभाषायाः
समूलोन्मूलनायैव
समजनि। अतः एतदनुसारं
संस्कृतस्य शिक्षाक्रमे
स्थानमेव सुदुष्करम्।
3. धार्मिक-ग्रन्थाध्ययनं
करणीयम् - आधुनिकशिक्षाव्यवस्थायां
धार्मिकग्रन्थानामाध्ययनं
चरित्रोन्नतिसाधनं
सांस्कृतिकसमुत्कर्षार्थं
च स्यात्। वेद-रामायण-गीता-महाभारतादीनां
संकलिताः महत्त्वपूर्णाः
सन्दर्भाः अनिवार्यत्वेन
पाठ्यः स्युः।
येन तादृषाः सन्दर्भाः
सांस्कृतिकाभ्युदयाय
चारित्रिकोन्नत्यै
च विकासः भविष्यन्ति।